भोजशृङ्गारप्रकाशः - Sahitya | Sahitya | Rikamrit
Home All Resources
Vidyakendra
Vidyakendra Home
Back to Sahitya

Texts

raghuvamsa kumarasambhava kiratarjuniya shishupalavadha amarushataka shatakatrayam shakuntalam pancatantra kadambari shringaraprakasha meghaduta rtusamhara naishadhiya bhattikavya

Settings

16

Bookmarks

No bookmarks yet

भोजशृङ्गारप्रकाशः

Enable Parallel


Showing 781 to 790 of 841 verses
निर्विकल्पकवेलायां निर्देष्टुं तन्न शक्यते।

तदुत्थास्तूभयत्रापि साक्ष्यं ददति निश्‍चयाः॥ १४३॥

यच्‍च वृत्तिविकल्पादिदूषणं तत्र वर्णितम्।

तत् प्रत्यक्षमहिम्‍नैव सर्वं प्रतिहतं भवेत्॥ १४४॥

यत्तावदुक्तं कुवलयामलकादिवदनवभासादिति तत्र प्रतीतिभेदो दर्शित एव। यत्तु देशभेदेनाग्रहणात्, तदग्रहे तद्‍बुद्ध‍यभावादिति तत्र जातेस्तदाश्रितत्वं, नासत्त्वम्। यदप्युक्तं वृत्त्यनुपपत्तेरिति तत्राप्युच्यते, प्रतिपिण्डं कार्त्स्‍न्येनैव जातिर्वर्तत इति पिण्डान्तरे तदुपलम्भोऽस्त्येव। एकदेशास्तु जातेर्न सन्त्येव।

क्‍वेदमन्यत्र दृष्टं चेदहो निपुणता तव।

दृष्टान्तं याचसे यस्त्वं प्रत्यक्षेऽप्यनुमानवत्॥ १४५॥

किंनामधेया वृत्तिरियमिति चेन्न नामधेयमस्याः जानीमः, पिण्डसमवेता जातिरित्येव प्रचक्ष्महे।

(समवायविचारः)

नन्वयुतसिद्धयोस्सम्बन्धः समवायः, स विप्रतिषेधादेव निरस्तः ? न शक्यते निरसितुम्।

Showing 781 to 790 of 841 verses