तदेवास्तु प्रमाणं वा तेनापि त्वधिगम्यते।
व्यावृत्तं वस्तुनो रूपं नानुगामीति का प्रमा॥ १३४॥
भवेद् यदि विशेषैकविषयं निर्विकल्पकम्।
सामान्याध्ववसायोऽयमकस्मात् कथमुद्भवेत्॥ १३५॥
पश्यत्यनुगतं रूपमविज्ञातेऽपि वाचके।
दाक्षिणात्य इवाकस्मात् पश्यन्नुष्ट्रपरम्पराम्॥ १३६।।
अपि च शबलेयपिण्डमवलोकितवतः कालान्तरे बाहुलेयपिण्डं पश्यतश्शाबलेय— पिण्डस्मरणमुत्पद्यते। तत्सामान्याभावे न घटते। न ह्यन्यस्मिन्दृष्टेऽन्यस्मरणनिमित्तं किञ्चिदस्ति। तयोरनुगतरूपाभ्युपगमे तदुपपद्यते नान्यथेति। किंच व्यक्त्यन्तरदर्शनेऽपि स एवायं गौरिति प्रत्यभिज्ञायते, तदप्यनुगतरूपाग्रहणे न युज्यते। न च व्यक्तिरेव प्रत्यभिज्ञायते, व्यक्तिभेदस्य प्रत्यक्षसिद्धत्वात्। यत्र च लघुतपरिमाणतिलमुद्गादिप्रचयसन्निधानेऽवच्छिन्नस्वलक्षणे ग्रहणं नास्ति, तत्रानुवृत्तमेव रूपमिन्द्रियेण गृह्यते। तस्माद् विशेषवत् सामान्यापह्नवो न युक्तः।
तस्मात् पूर्वाक्षसम्पाते तुल्यत्वमभिगम्यते।
नानात्वं चेति सामान्यभेदौ द्वावपि वास्तवौ॥ १३७॥