सामान्यमिदमित्येवमथ तत्रानुपग्रहः।
व्यावृत्तमिदमित्येवं किं वा बुद्धिस्स्वलक्षणा॥ १३८॥
समानवृत्तिसापेक्षं न च सामान्यवेदनम्।
तत्र सन्निहितत्वात् तु व्यक्तिवन्नानुपग्रहः॥ १३९॥
समानवृत्त्यपेक्षत्वात् सामान्यस्यानुपग्रहे।
विशेषोऽपि च मा ग्राहि व्यावृत्तिं स ह्यपेक्षते॥ १४०॥
अनुवृत्तिर्हि येष्वस्य का तेषां ग्रहणे गतिः।
व्यावृत्तिरपि येभ्योऽस्य का तेषां ग्रहणे गतिः॥ १४१॥
अथानुवृत्तिव्यावृत्तिनैरपेक्ष्येण केवलम्।
वस्त्वेव गृह्यते कामं कीदृक्तदिति कथ्यताम्॥ १४२॥