तस्मात् सकृदभिव्यक्ता नान्यदापि प्रतीयते॥ १५४॥
अभिव्यक्तिश्च तद्देशा यद्देशा व्यक्तिरीक्ष्यते।
तस्मादस्मिन्नभिव्यक्ता न देशेऽन्यत्र दृश्यते॥ १५५॥
पिण्डसर्वगतत्वेऽपि स्वयूथ्यैः कैश्चिदाश्रिते।
भविष्यत्यन्यजातायां गवि गोधीस्तथाग्रहात्॥ १५६॥
जायमानैव हि व्यक्तिर्जायते जातियोगिनी।
एक एव हि कालोऽस्या जातिसम्बन्धजन्मनोः॥ १५७॥
नेह जातेः पुरास्तित्वं न च संक्रान्तिरन्यतः।
किं तु स्वहेतोस्सा व्यक्तिस्तादृशैवोपजायते॥ १५८॥
कथमेतदितीदं तु येन पर्यनुयुज्यते।