दुःखेन भोजयितुमाशयिता शशाक तुङ्गाग्रकायमनमन्तमनादरेण । उत्क्षिप्तहस्ततलदत्तविधानपिण्डस्नेहस्रुति स्नपितबाहुरिभाधिराजम् ॥
Metre: वसन्ततिलका
शुक्लांशुकोपरचितानि निरन्तराभिर्वेश्मनि रस्मिविततानि नराधिपानाम् । चन्द्राकृतानि गजमणडलिकाभिरुच्चैर्नीलाभ्रपङ्क्तिपरिवेषमिवाधिजग्मुः ॥
Metre: वसन्ततिलका
गत्यूनमर्गगतयोऽपि गतोरुमार्गाः स्वैरं समाचकृषिरे भुवि वेल्लनाय । दर्पोदयोल्लसितफेनजलानुसारसंलक्ष्यपल्ययनवर्ध्रपदास्तुरङ्गाः ॥
Metre: वसन्ततिलका
आजिघ्रति प्रणतमूर्धनि बाह्लजेऽश्वे तिस्याङ्गसङ्गमसुखानुभवोत्सुकायाः । नासाविरोकपवनोल्लसितं तनीयो रोमाञ्चतामिव जगाम रजः पृथिव्याः ॥
Metre: वसन्ततिलका
हेम्नः स्थलीषु परितः परिवृत्य वाजी धुन्वन्वपुः प्रविततायतकेशपङ्क्तिः । ज्वलाकणारुणरुचा निकरेणरेणोः शेषेणतेजसःइवोल्लसता रराज ॥
Metre: उपजातिः
दन्तालिकाधरणनिश्चलपाणियुग्ममर्धोदितो हरिरिवोदयशैलमूर्ध्नः । स्तोकेन नाक्रमत वल्लभपालमुच्चैः श्रीवृक्षकी पुरुषकोन्नमिताग्रकायः ॥
Metre: वसन्ततिलका
रेजे जनैः स्नपनसान्द्रतरार्द्रमूर्तिर्देवैरिवानिमिषद्दृष्टिभिरीक्ष्यमाणः । श्रीसंनिधानरमणीयतरोऽश्व उच्चैरुच्चैश्रवा जलनिधेरिव जातमात्रः ॥
Metre: वसन्ततिलका
अश्रावि भूमिपतिभिः क्षणवीतनिद्रैरश्नुन्पुरो हरितकं मुदमादधानः । ग्रीवाग्रलोलकलकिङ्गिणीकानिनाद मिश्रं दधद्दशनचर्चुरशब्दमश्वः ॥
Metre: वसन्ततिलका
उत्खाय दर्पचलितेन सहैव रज्ज्वा कीलं प्रयत्नपरमानवदुर्ग्रहेण । आकुल्यकारि कटकस्तुरगेण तूर्णमश्वेति विद्रुतमनुद्रुताश्वमन्यम् ॥
Metre: वसन्ततिलका
अव्याकुलं प्रकृतमुत्तरधेयकर्म धाराः प्रसाधयितुव्यतिकीर्णरूपाः । सिद्धं मुखे नवसु वाथिषु कश्चिदश्वं वल्गाविभागकुशलो गमयांबभूव ॥
Metre: वसन्ततिलका