सवधूकाः सुखिनोऽस्मन्ननवरतममन्दरामतामरसदृशः । नासेवन्ते रसवन्नवरतममन्दरागतामरसदृशः ॥
आच्छाद्य पुष्पपटमेव महान्तमन्तरावर्तिभिर्गृहकपोतशिरोधराभैः । शस्वङ्गानि धूमरुचिमागुरवीं दधानैर्धूपायतीव पटलैर्नीरदानाम् ॥
अन्योन्यव्यतिकरचारुभिर्विचित्रैरत्रस्यन्नवमणिर्जन्मभिर्मयूखैः । विस्मेरान्गगनसदः करोत्यमुष्मिन्नाकाशेरचितमभित्ति चित्रकर्म ॥
Metre: प्रहर्षिणी
समीरशिशिरः शिरःसुवसता सता जवनिका निकानसुखिनाम् । बिभर्तिजनयन्नयं मुदमपामपायधवला वलाहकततीः ॥
Metre: जलोद्धतगति
मैर्त्त्र्यादिचित्तपरिकर्मविदो विधाय क्लेशप्रहाणमिह लब्धसबीजयोगाः । ख्यातिं चसत्त्वपुरुषान्यतयाधिगम्य वाञ्चन्ति तामपि समाधिभृतः निरोद्धुम् ॥
Metre: वसन्ततिलका
मरकतमयमेदिनीषु भानोस्तरुविटपान्तरपातिनो मयूखाः । अवनतशितिकण्ठकण्ठलक्ष्मीमिह दधति श्फुरिताणुरेणुजालाः ॥
Metre: पुष्पिताग्रा = [१२: ननरय] १,३ + [१२: नजजरग] २,४
या बिभर्ति कलवल्लकीगुणस्वानमानमतिकालिमालया । नात्र कान्तमुपगीतया तया स्वानमानमति कालिमालया ॥
Metre: रथोद्धता
सायं शशाङ्गकिरणाहतचन्द्रकान्तनिस्यन्दिनीरनिकरेण कृताभिषेकाः । अर्कोपलोल्लसितवह्निभिरह्नि तप्तास्तीव्रं महाव्रतमिवात्र चरनति वप्राः ॥
Metre: वसन्ततिलका
एतस्मिन्नधिकपयःश्रियं वहन्त्यः संक्षोभं पवनभुवा जवेन नीताः । वाल्मीकेररहितरामलक्ष्मणानां साधर्म्यं दधति गिरां महासरस्यः ॥
Metre: प्रहर्षिणी
इह मुहुर्मुदितैः कलभै रवः प्रतिदिशं क्रियते कलभैरवः । स्फुरति चानुवनं चमरीचयः कनकरत्नभुवां च मरीचयः ॥
Metre: द्रुतविलम्बितम्