शिशुपालवधम् - Sahitya | Sahitya | Rikamrit
Home All Resources
Vidyakendra
Vidyakendra Home
Back to Sahitya

Texts

raghuvamsa kumarasambhava kiratarjuniya shishupalavadha amarushataka shatakatrayam shakuntalam pancatantra kadambari shringaraprakasha meghaduta rtusamhara naishadhiya bhattikavya

Settings

16

Bookmarks

No bookmarks yet

शिशुपालवधम्

Enable Parallel


Showing 41 to 50 of 68 verses
Verse 41
अनतिचिरोज्झितस्य जलदेन चिरस्थितबुद्ध्युदयस्य पयसोऽनुकृतिम् । विरलविकीर्णवज्रशकला सकलामिह विदधाति धौतकलधौतमही ॥
Metre: प्रमदा

Verse 42
वर्जयन्त्या जनैः संगमेकान्ततस्तर्कयन्त्या सुखं सङ्गमे कान्ततः । योषयैष स्मरासन्नतापाङ्गया सेव्यतेऽनेकया संन्नतापङ्गया ॥
Metre: स्रग्विणी

Verse 43
संकीर्णकीचकवनस्खलितैकवालविच्छेदकातरधियश्चलितुं चमर्यः । अस्मिन्मृदुश्वसनगर्भतदीयरन्ध्रर्यत्स्वनश्रुतिसुखादिव नोत्सहन्ते ॥
Metre: वसन्ततिलका

Verse 44
मुक्तं मुक्तागौरमिह क्षीरमिवाभ्रैर्वापीष्वन्तर्लीनमहानीलदलासु । शस्त्रीश्यामैरंशुभिराशु द्रुतमम्भश्छायामच्छामृच्छति नीलीसलिलस्य ॥
Metre: मत्तमयूरम्

Verse 45
या न ययौ प्रियमन्यवधूभ्यः सारतरागमना यतमानम् । तेन सहेत बिभर्ति रसः स्त्री सा रतरागमनायतानाम् ॥
Metre: आर्यागीति (१२, २०, १२, २०)

Verse 46
भिन्नेषुरत्नकिरणैः किरणेष्विहेन्दोरुच्चावचैरुपगतेषु सहस्रसंख्यां । दोषापि नूनमहिमांशुरसौ किलेति व्याकोशकोकनदतां दधते नलिन्यः ॥
Metre: वसन्ततिलका

Verse 47
अपशङ्कमङ्कपरिवर्तनोचिताश्चलिताः पुरः पतिमुपेतुमात्मजाः । अनुरोदितीव करुणेन पत्त्रिणां विरुतेन वत्सलतययैष निम्नगाः ॥
Metre: मञ्जुभाषिणी

Verse 48
मधुकरविटपानमितास्तरुपङ्क्तीर्बिभ्रतःऽस्य विटपानमिताः । परिपाकपिशङ्गलतारजसा रोधश्चकास्ति कपिशं गलता ॥
Metre: आर्यागीति (१२, २०, १२, २०)

Verse 49
प्राग्भागतः पतदिहेदमुपत्यकासु शृङ्गारितायतमहेभकराभमम्भः । संलक्ष्यतेविविधरत्नकरानुविद्धमूर्ध्वप्रसारितसुराधिपचापचारु ॥
Metre: वसन्ततिलका

Verse 50
दधाति च विकसद्विचित्रकल्पद्रुमकुसुमैरभिगुम्फितानिवैताः । क्षणमलघुविलम्बिपिच्छदाम्नः शिखरशिखाः शिखिशेखरानमुष्य ॥