शिशुपालवधम् - Sahitya | Sahitya | Rikamrit
Home All Resources
Vidyakendra
Vidyakendra Home
Back to Sahitya

Texts

raghuvamsa kumarasambhava kiratarjuniya shishupalavadha amarushataka shatakatrayam shakuntalam pancatantra kadambari shringaraprakasha meghaduta rtusamhara naishadhiya bhattikavya

Settings

16

Bookmarks

No bookmarks yet

शिशुपालवधम्

Enable Parallel


Showing 21 to 30 of 68 verses
Verse 21
वहति यः परितः कनकस्थलीः सहरिता लसमाननवांशुकः । अचलेषभवानिव राजते स हरितालसमाननवांशुकः ॥
Metre: द्रुतविलम्बितम्

Verse 22
पाश्चात्यभागमिह सानुषु सन्निषण्णाः पश्यन्ति शान्तमलसान्द्रतरांशुजालम् । संपूर्णलब्धललनालापनोपमानमुत्सङ्गसह्गिहरिणमस्य मृगाङ्गमूर्तेः ॥
Metre: वसन्ततिलका

Verse 23
कृत्वापुंवत्पादमुच्चैर्भृगुभ्यो मूर्ध्नि ग्राव्णां जर्जरा निर्झरौघाः । कुर्वन्ति द्यामुत्पतन्तः स्मरार्तस्वर्लोकस्त्रीगात्रनिर्णमत्र ॥
Metre: शालिनी

Verse 24
स्थगयन्त्यमूः शामितचातकार्तस्वरा जलदास्तडित्तुलितकान्तकार्तस्वराः । जगतीरिहस्फुरितचारुचामीकराः सवितुः कचित्कपिशयन्ति चामी कराः ॥
Metre: पथ्या

Verse 25
उत्क्षिप्तमुच्छ्रितसितांशुकरावलम्बैरुत्तम्भितोडुभिरतिवतरां शिरोभिः । श्रद्धेयनिर्झरजलव्यपदेशमस्य विष्वक्तटेषु पतति स्फुटमन्तरीक्षम् ॥
Metre: वसन्ततिलका

Verse 26
एकत्रस्फटिकतटांशुभिन्ननीरा नीलाश्मद्युतिभिदुराम्भसोऽपरत्र । कालिन्दीजलजनितश्रियः श्रयन्ते वैदग्धीमिह सरितः सुरापगायाः ॥
Metre: प्रहर्षिणी

Verse 27
इतस्ततःऽस्मिन्विलसन्ति मेरोः समानवप्रेमणिसानुरागाः । स्त्रियशच पत्यौ सुरसुन्दरीभिः समा नवप्रेमणिसानुरागाः ॥
Metre: उपेन्द्रवज्रा

Verse 28
उच्चैमहारजतराजिविराजितासौ दुर्वर्णभित्तिरिह सान्द्रसुधासवर्णा । अभ्येति भस्मपरिपाण्डुरितस्मरारेरुद्वह्निलोचनललामललाटलीलाम् ॥
Metre: वसन्ततिलका

Verse 29
अयमतिजरठाः प्रकामगुर्वीरलघुविलम्बिपयोधरोपरुद्धाः । सततमसुगतामगम्यरूपाः परिणतदिक्करिकास्तटीर्बिभर्ति ॥
Metre: पुष्पिताग्रा = [१२: ननरय] १,३ + [१२: नजजरग] २,४

Verse 30
धूमाकारं दधति पुरः सौवर्णे वर्णेनाग्नेः सदृशि तटे पश्यामी । श्यामीभूताः कुसुमसमूहोऽलीनां लीनामालीमिह तरवो बिभ्राणाः ॥
Metre: जलधरमाला