छायाविधायिभिरनुज्झितभूतिशोभैरुच्छ्रायिभिर्बहलपाटलधातुरागैः । दूष्यैरपि क्षितिभृतां द्विरदैरुदारतारावलीविरचनैर्व्यरुचन्निवासाः ॥
Metre: वसन्ततिलका
उत्क्षप्तपटकान्तरलीयमानमन्दानिलप्रशमितश्रमघर्मतोयैः । दुर्वाप्रतानसहजास्तरणेषु भेजे निद्रसुखं वसनसद्मसु राजदारैः ॥
प्रस्वेदवारिसविशेषविषक्तमङ्गे कूर्पासकं क्षतनखक्षतमुत्क्षिपन्ती । आविर्भवद्वनपयोधरबाहुमूला शातोदरी युवदृशां क्षणमुत्सवोऽभूत् ॥
Metre: वसन्ततिलका
यावत्स एव समयः सममेव तावदव्याकुलाः पटमयान्यभितो वितत्य । पर्यापतत्क्रयिकलोकमगण्यपण्यपूर्णपणा विणुनो विपणीर्विभेजुः ॥
Metre: वसन्ततिलका
अल्पप्रयोजनकृतोरुतरप्रयातसैरुद्गूर्णलोष्टगुडैः परितोऽनुविद्धम् । उद्यातमुद्रतमनोकहझालमध्यादन्याः शशङ्गुणमनल्पमवन्नवाप ॥
Metre: वसन्ततिलका
त्रासाकुलः परिपतन्परितो निकेतान्पुंभिर्न कैश्चिदपि धन्वभिरन्वबन्धि । तस्थौ तथापि न मृगः क्वचिदङ्गनानामाकर्णपूर्णनयनेषुहतेक्षणश्रीः ॥
Metre: वसन्ततिलका
आस्तीर्णतल्परचितावासथः क्षणेन वेशयाजनः कृतनवकर्मकाम्यः । खिन्नानखिन्नमतिरापततो मनुष्यान्प्रत्यग्रहीच्चिरनिविष्ट इवोपचारैः ॥
Metre: वसन्ततिलका
सस्नुः पयः पपुरनेनिजुरम्बराणि जक्षुर्बिसं धृतविकासिभिसप्रसूना । सैन्याः श्रियामनुपभोगनिरर्थकत्वदोषप्रवादममृजन्नगनिमन्गानाम् ॥
Metre: वसन्ततिलका
नाभिह्रदैः परिगृहीतरयाणि निम्नैः सत्रीणांबृहज्जघनसेतुनिवारितानि । जग्मुर्जलानि जलमुड्डकवाद्यवल्गुवल्गद्धनस्तनतटस्खलितानि मन्दम् ॥
Metre: वसन्ततिलका
आलोलपुष्करमुखोल्लसितैरभीक्ष्णमुक्षांबभूवुरभितोवपुरम्बुवर्षैः । स्वेदायत श्वसितनिरस्तवेगमुग्धमूर्धन्यरत्ननिकरैरिव हास्तिकानि ॥
Metre: वसन्ततिलका