इत्थं व्यलीकाः प्रियतमा इव सोऽव्यलीकः शुश्राव सूततनयस्य तदा व्यलीकाः । रन्तुं निरन्तरमियेष ततोऽवसाने तासां गिरौ च वनराजिपटं वसाने ॥
Metre: वसन्ततिलका
तं स द्विपेन्द्रतुलितातुलतुङ्गशृङ्गमभ्युल्लसत्कदलिकावनराजिमुच्चैः । विस्ताररुद्धवसुधोऽन्वचलं चचाल लक्ष्मीं दधत्प्रतिगिरेरलघुर्बलौघः ॥
Metre: वसन्ततिलका
भास्वत्करव्यतिकरोल्लसिताम्बरान्तस्तापत्रपा इव महाजनदर्शनेन । संविव्युरम्बरविकासि चमूसमुत्थं पृत्वीरजः करभकण्ठकडारमाशः ॥
Metre: वसन्ततिलका
आवर्तिनः शुभफलप्रदशुक्तियुक्ताः संपन्नदेवमणयो भृतरन्ध्रभागाः । अश्वाः प्यधुर्वसुमतीमतिरोचमानास्तूर्णं पयोधय इवोर्मिभिरापततन्तः ॥
Metre: वसन्ततिलका
आरक्षमग्नमवमत्य सृणिं शिताग्रमेकः पलायत जवेन कृतार्तनादः । अन्यपुनर्मुहुरुदप्लवतास्तभारमन्योन्यतः पथि बताबिभातमिभोष्ट्रौ ॥
Metre: उपजातिः
आयास्तमैक्षत जनशचटुलाग्रपादं गच्छन्तमुच्चलितचामरचारुमश्वम् । नागं पुनर्मृदु सलीलनिमीलिताक्षं सर्वःप्रयः खलु भवतयनुरूपचेष्टः ॥
त्रस्तः समस्तजनहासकरः करेणोस्तावत्खरः प्रखरमुल्ललयाञ्चकार । यावच्चलासनविलोलनितम्बबिम्बविस्रस्तवस्त्रमवरोधवधूः पपात ॥
Metre: वसन्ततिलका
शैलोपशल्यनिपतद्रथनेमिधारानिष्पिष्टनिष्ठुरशिलातलचूर्णगर्भाः । भूरेणवोनभसि नद्धपयोदचक्राश्चक्रवदङ्गरुहधूम्ररुचो विसस्रुः ॥
Metre: वसन्ततिलका
उद्य्त्कृशानुशकलेषु सुराभिघाताद्भूमीसमायातशिलाफलकाचितैषु । पर्न्तवर्त्मसु व्चक्रमिरे महाश्वाः शैलस्य दर्दुरपुटानिव वादयन्तः ॥
तेजोनिरोधसमतावहितेन यन्त्रा समय्क्कशात्रयविचारवाता नियुक्तः । आराट्टजश्चटुलनिष्ठुरपातमुच्चैश्चित्रं चकार पदमर्दपुलायितेन ॥
Metre: वसन्ततिलका