शिशुपालवधम् - Sahitya | Sahitya | Rikamrit
Home All Resources
Vidyakendra
Vidyakendra Home
Back to Sahitya

Texts

raghuvamsa kumarasambhava kiratarjuniya shishupalavadha amarushataka shatakatrayam shakuntalam pancatantra kadambari shringaraprakasha meghaduta rtusamhara naishadhiya bhattikavya

Settings

16

Bookmarks

No bookmarks yet

शिशुपालवधम्

Enable Parallel


Showing 61 to 69 of 69 verses
Verse 61
मुक्तासृणानि परितः कचकं चरन्तस्त्रुट्याद्वितानतनिकाव्यतिषङ्गभाजः । सस्रुः सरोषपरिचारकवार्यमाणा दमाञ्चलस्खलितलोलपदं तुरङ्गाः ॥
Metre: वसन्ततिलका

Verse 62
उत्तीर्णभारलघुनाप्यलघूलपौघसौहित्यनिःसहतरेण तरोरधस्तात् । रोमन्थमन्थरचलद्गुरुसास्नमासांचक्रे नीमीलदलसेक्षणमौक्षकेण ॥
Metre: वसन्ततिलका

Verse 63
मृत्पिण्डशेखरितकोटिभिरर्धचन्द्रं शृङ्गै शिखाग्रगतलक्ष्ममलं हसद्भिः । उच्छृङ्गितान्यवृषभा सरितां नदन्तो रोधांसि धीरमपचस्किरिरे महोक्षाः ॥
Metre: वसन्ततिलका

Verse 65
मेदस्विनः सरभसोपगतानभीकान्भङ्कत्वा पराननडुहो मुहुराहवेन । ऊर्जस्वलेन सुरभीरनुनिनिःसपत्नं जग्मे जयोद्धुरविशालविषाणमुक्ष्णा ॥

Verse 64
बिभ्राणमायतिमतीमवृथा शिरोधिं प्रत्यग्रतामतिरसामधिकं दधन्ति । लोलोष्ट्रमौष्ट्रकमुदग्रमुखं तरूणामभ्रंलिहानि लिलिहे नवपल्लवानि ॥
Metre: वसन्ततिलका

Verse 66
सार्धं कथञ्चिदुचितैः पिचुमर्दपत्त्रैरास्यान्तरालगतमाम्रदलं म्रदीयः । दासेरकःसपदि संवलितं निषादैर्विप्रं पुरा पतगराडिव निर्जगार ॥
Metre: वसन्ततिलका

Verse 67
स्पष्टं बहिः स्थितवतेरपि निवेदयन्तश्चेष्टाविशेषमनुजीविजनाय राज्ञाम् । वैतालिकाः स्फुटपदप्रकटार्थमुच्चैर्भोगावलीः कलगिरोऽवसरेषु पेठुः ॥
Metre: वसन्ततिलका

Verse 68
उन्नम्रताम्रपटमण्डपमण्डितं तदानीलननागकुलसंकुलमाबभासे । संध्याशुभिन्नघनकर्बुरितान्तरीक्षलक्ष्मीविडम्बि शिविरं शिवकीर्तनस्य ॥
Metre: वसन्ततिलका

Verse 69
धरस्योद्धर्तासित्वमितिननु सर्वत्र जगति प्रतीतस्तत्किं मामतिभरमधः प्रापिपायिषुः । उपालब्धेवोच्चैर्गिरिपतिरिति श्रीपतिमसौ बलाक्रान्तः क्रडद्द्विरदमथितोर्वीरुहरवैः ॥
Metre: उपजातिः

Showing 61 to 69 of 69 verses