प्रत्यन्यदन्ति निशिताङ्गुशदूरभिन्ननिर्याणनिर्यदसृजं चलितं निपादी । रोद्धुं महेभपरिव्रढिमानमागादाक्रन्तितो न वशमेति महान्परस्य ॥
Metre: वसन्ततिलका
सेव्योऽपि सानुनयमाकलनाय यन्त्रा नीतेन वन्यकरिदानकृताधिवासः । नाभाजि केवलमभाजि गजेन शाखी नान्यस्य गन्धमपि मानभतः सहन्ते ॥
Metre: वसन्ततिलका
अद्रीन्दुकुञ्चचरकुञ्जरगण्डकाषसंक्रान्तदानपयसो वनपादपस्य । सेनागजेन मथितस्य निजप्रसूनैर्मम्ले यथागतमगामि कुलैरलीनाम् ॥
Metre: वसन्ततिलका
नोच्चैर्यदा तरुतलेषु ममुस्तदानीमाधोरणैरभिहिताः पृथुमूलशाखाः । बन्धाय चिच्छिदुरिभास्तरसात्मनैव नैवात्मनीनमथ वा क्रियते मदान्धैः ॥
Metre: वसन्ततिलका
उष्णोष्णशीकरसृजः प्रबलोष्मणोऽन्तरुत्फुल्लनीलनलिनोदरतुल्यभासः । एकान्वशालशिरसो हरिचन्दनेषु नागान्बबन्धुरपारान्मनुजा निरासुः ॥
Metre: वसन्ततिलका
कण्डूयतः कटुभुवं करिणो मदेन स्कन्धं सुगन्धिमनुलीनवता नगस्य । स्थूलेन्द्रनीलशकलावलिकोमलेन कणठेगुणत्वमलीनां वलयेन भेजे ॥
Metre: वसन्ततिलका
निर्धूतवीतमपि बालकमुल्ललन्तं यन्ता क्रमेण परिसान्त्वनतर्जनाभिः । शिक्षावशेन शनकैर्वशमानिनाय शाश्त्रं हि निश्चितधियां क्व न सिद्धमेति ॥
Metre: वसन्ततिलका
स्तम्भं महान्तमुचितं सहसा मुमोच दानं ददावतितरां सरसाग्रहस्तः । बद्धपराणि परितो निगडानेयलावीत्स्वातन्त्र्यमुज्वलमवाप करेणुराजः ॥
Metre: वसन्ततिलका
जज्ञे जनैर्मुकुलितताक्षमनाददाने संरब्धहस्तिपकनिष्टुरचोदनाभिः । गम्भीरवेदिनि पुरः कवलं करीन्द्रे मन्दोऽपि नाम न महानवगृह्य साध्यः ॥
Metre: वसन्ततिलका
क्षिप्तं पुरो न जगृहे मुहुरिक्षुकाण्डं नापेक्षते स्म निकटोपगतां करेणुं । सस्मार वारणपतिः परिमीलिताक्षमिच्छाविहारवनवासमहोत्सवनाम् ॥
Metre: वसन्ततिलका