शिशुपालवधम् - Sahitya | Sahitya | Rikamrit
Home All Resources
Vidyakendra
Vidyakendra Home
Back to Sahitya

Texts

raghuvamsa kumarasambhava kiratarjuniya shishupalavadha amarushataka shatakatrayam shakuntalam pancatantra kadambari shringaraprakasha meghaduta rtusamhara naishadhiya bhattikavya

Settings

16

Bookmarks

No bookmarks yet

शिशुपालवधम्

Enable Parallel


Showing 1 to 10 of 79 verses
Verse 1
अथ रिरंसुममुं युगपद्गिरौ कृतयथास्वतरुप्रसवश्रिया । ऋतुगणेन निषेवितुमादधे भुवि पदं विपदन्तकृतं सतां ॥
Metre: द्रुतविलम्बितम्

Verse 2
नवपलाशपलाशवनं पुरः स्फुटपरागपरागतपङ्कजम् । मृदुलतान्तलतान्तमलोकयत्स सुरभिं सुरभिं सुमनोभरैः ॥
Metre: द्रुतविलम्बितम्

Verse 3
विलुलितालकसंहृतिरामृशन्मृगदृशां श्रमवारि ललाटजम् । तनुतरङ्गततिं सरसां दलत्कुवलयं वलयन्मरुदाववौ ॥
Metre: द्रुतविलम्बितम्

Verse 4
तुलयति स्म विलोचनतारकाः कुरबकस्तबकव्यतिषह्किणि । गुणवदाश्रयलब्धगुणोददये मालिनिमालिनि माधवयोषितां ॥
Metre: द्रुतविलम्बितम्

Verse 5
स्फुटमिवोज्वलकाञ्चकान्तिभिर्युतमशोकमशोभत चम्पकैः । विरहिणां हृदयस्य भिदाभृतः कपिशितं पिशितं मदनाग्निना ॥
Metre: द्रुतविलम्बितम्

Verse 6
स्मराहुताशनमुर्मुरचूर्णतां दधुरिवाम्रवनस्य रजःकणाः । निपातिताः परितः पथिकव्रजानुपरि ते परितेपुरतो भृशम् ॥

Verse 7
रतिपतिप्रहितेव कृतक्रुधः प्रियतमेषु वधूरनुनायिका । बकुलपुष्परसासवपेशलध्वनिरगान्निरगात्मधुपावलिः ॥
Metre: द्रुतविलम्बितम्

Verse 8
प्रियसखीसदृशं प्रतिबोधिताः किमपि काम्यगिरा परपुष्टया । प्रियतमाय वपुर्गुरुमत्सरच्छिदुरयादुरनाचिंअङ्गनाः ॥
Metre: द्रुतविलम्बितम्

Verse 9
मधुकरैरपवादकरैरिव स्मृतिभुवः पथिकाः हरिणा इव । कलतया वचसः परिवादिनीस्वरजिता वशमाययुः ॥
Metre: गीति (१२, १८, १२, १८)

Verse 10
समभिसृत्य रसादवलम्बितः प्रमदया कुसुमावचिचीर्षया । अविनमन्न रराजवृथोच्चकैरनृतया नृतया वनपादपः ॥
Metre: द्रुतविलम्बितम्

Showing 1 to 10 of 79 verses