शिशुपालवधम् - Sahitya | Sahitya | Rikamrit
Home All Resources
Vidyakendra
Vidyakendra Home
Back to Sahitya

Texts

raghuvamsa kumarasambhava kiratarjuniya shishupalavadha amarushataka shatakatrayam shakuntalam pancatantra kadambari shringaraprakasha meghaduta rtusamhara naishadhiya bhattikavya

Settings

16

Bookmarks

No bookmarks yet

शिशुपालवधम्

Enable Parallel


Showing 11 to 20 of 69 verses
Verse 11
नीहारजालमालिनः पुनरुक्तसान्द्राः कुर्न्वधूजनविलोचनपक्ष्ममालाः । क्षुण्णः क्षणं यदुबलैर्दिवमातितांसुः पांशुर्दिसां मुखमतुत्थयदुत्थितोऽद्रेः ॥
Metre: वसन्ततिलका

Verse 12
उच्छिद्य विद्विष इव प्रस्रभं मृगेन्द्रानिन्द्रानुजाचरभूतपतयोऽध्यवात्सुः । वन्येभमस्तकनिखातनखाग्रयमुक्तमुक्ताफलप्रकरभाञ्जि गुहागृहाणि ॥

Verse 13
विभ्राणया बहलयावकङ्कपिङ्कपिच्छावचूडामनुमाधवमास जग्मुः । चञ्च्वग्रदष्टचटुलाहितपताकयान्ये स्वावासभागमुरगाशनकेतुयष्ट्या ॥
Metre: उपजातिः

Verse 14
छायामपास्य महतीमपि वर्तमानामागामिनीं जगृहिरे जनतास्रूणाम् । सर्वो हि नोपागतमप्यपचीयमानं वर्धिष्णुमाश्रयमनागतमभ्युपैति ॥
Metre: वसन्ततिलका

Verse 15
अग्रगतेन वसतिं परिगृह्य रम्यामापात्यसैनिकनिराकराणाकुलेन । यान्तोऽन्यतः प्लुतकृतस्वरमाशु दूरादुद्बाहुना जुहुवविरे मुहुरात्मवर्ग्याः ॥

Verse 16
सिक्ता इवामृतरसेन मुहुर्जनानां क्लान्तिच्छिदो वनवनस्पतयस्तदानीम् । शाखावसक्तवसनाभरणाभिरामाः कल्पद्रुमैः सह विचित्रफलैर्विरेजुः ॥
Metre: वसन्ततिलका

Verse 17
यानाज्जनः परिजनैरवतार्यमाणा राज्ञीर्नरापनयनाकुलसौविदल्लाः । स्रस्तावगुण्ठनपटाः क्षणलक्ष्यमाणवक्रश्रियः सभयकौतुकमीक्षते स्म ॥
Metre: वसन्ततिलका

Verse 18
कण्ठावसक्तमृदुबाहुलतातुरङ्गाद्राजावरोधनवधूरवतारयन्तः । आलिङ्गनान्यधिकृताः स्फुटमापुरेव गण्डस्थलीः शुचितया न चुचुम्बुरासाम् ॥
Metre: वसन्ततिलका

Verse 19
दृष्ट्वेव निर्जतकलापभरामधस्ताद्व्याकीर्णमान्यकबरां कबरीं तरुण्याः । प्रादुद्रुवत्सपदि चन्द्रकवान्द्रुमाग्रात्संघर्षिणा सह गुणाभ्यधिकैर्दुरापम् ॥
Metre: वसन्ततिलका

Verse 20
रोचिष्णुकाञ्चनचयांशुपिशङ्गिताशा वंशध्वजैर्जलदसंहतिमुल्लिखन्त्यः । भूभर्तुरायत निरन्तरसंनिवृष्टाः पादा इवाभिवभुरावलयो रथानाम् ॥
Metre: वसन्ततिलका

Showing 11 to 20 of 69 verses