शिशुपालवधम् - Sahitya | Sahitya | Rikamrit
Home All Resources
Vidyakendra
Vidyakendra Home
Back to Sahitya

Texts

raghuvamsa kumarasambhava kiratarjuniya shishupalavadha amarushataka shatakatrayam shakuntalam pancatantra kadambari shringaraprakasha meghaduta rtusamhara naishadhiya bhattikavya

Settings

16

Bookmarks

No bookmarks yet

शिशुपालवधम्

Enable Parallel


Showing 11 to 20 of 68 verses
Verse 11
यतः परार्घ्यानि भृतान्यनूनै प्रस्थैर्मुहुर्भूरिभिरुच्चिखानि । आढ्यादिवप्रापणिकादजस्रं जग्राह रत्नान्यमितानि लोकः ॥
Metre: उपजातिः

Verse 12
अखिध्यतासन्नमुदग्रतापं रविं दधानेऽप्यरविन्दधाने । भृङ्गावलिर्यस्यतटे निपीतरसा नमत्तामरसा न मत्ता ॥
Metre: उपजातिः

Verse 13
यत्राधिरूढेनमहीरुहोच्चैरुन्निद्रपुष्पाक्षिसहस्रभाजा । सुराधिपाधिष्ठितहस्तिमल्ललीलां दधौ राजतगण्डशैलः ॥
Metre: उपजातिः

Verse 14
विभिन्नवर्णागरुडाग्रजेन सूर्यस्यरथ्याः परितः स्फुरन्त्या । रत्नैः पुनर्यत्र रुचं स्वामानिन्यिरे वंशकरीरनीलैः ॥
Metre: इन्द्रवज्रा

Verse 15
यत्रोज्झिताभिर्मुहुरम्बुवाहैः समुन्नमद्भिर्न समुन्नमद्भि । वनं बबाधे विषपावकोत्था विपन्नगानामविपन्नगानाम् ॥
Metre: उपजातिः

Verse 16
फलद्भिरुष्णांशुकराभिमर्शात्कर्शानवं धाम पतङ्गकान्तैः । शशंस यः पात्रगुणाद्गुणानां संक्रान्तिमाक्रान्तगुणातिरेकाम् ॥
Metre: उपजातिः

Verse 17
दृषटोऽपि शैलः स मुहुर्मुरारेरपूर्ववद्विस्मयमाततान । क्षणेक्षमे यन्नवतामुपैति तदेवरूपं रमणीयतायाः ॥
Metre: उपेन्द्रवज्रा

Verse 18
उच्चारणज्ञेऽथगिरादधानमुच्चा रणत्पक्षिगणास्तटीस्तम् । उत्कं धरं द्रष्टुमवेक्ष्य शौरिणुत्कन्धरं दारुक इत्युवाच ॥
Metre: इन्द्रवज्रा

Verse 19
आच्छादितायतददिगम्बरमुच्चकैर्गामाक्रम्यसंस्थितमुदग्रविशालशृङ्गम् । मूर्ध्निस्खलत्तुहिनदीधितिकोटिमेनमुद्वीक्ष्य को भुवि न विस्मयते नगेशम् ॥
Metre: वसन्ततिलका

Verse 20
उदयतिविततर्ःध्वरशमिरज्जावहिमरुचौ हिमधाम्नि याति चास्तम् । वहतिगिरिरयं विलम्बिधणटाद्वयपरिवारितवारणेन्द्रलीलाम् ॥

Showing 11 to 20 of 68 verses