शिशुपालवधम् - Sahitya | Sahitya | Rikamrit
Home All Resources
Vidyakendra
Vidyakendra Home
Back to Sahitya

Texts

raghuvamsa kumarasambhava kiratarjuniya shishupalavadha amarushataka shatakatrayam shakuntalam pancatantra kadambari shringaraprakasha meghaduta rtusamhara naishadhiya bhattikavya

Settings

16

Bookmarks

No bookmarks yet

शिशुपालवधम्

Enable Parallel


Showing 11 to 20 of 82 verses
Verse 11
स इन्द्रनीलसस्थलनीलमूर्ती रराज कर्पूरपिशङ्गवासाः । विसृत्वरैरम्बुरुहां रजोभिर्यमस्वसुश्चित्र इवोदभारः ॥
Metre: उपेन्द्रवज्रा

Verse 12
प्रसाधितस्यास्य मुधाद्विषोऽभूदन्यैव लक्ष्मीरिति युक्तमेतत् । वपुष्यशेषेऽखिललोककान्ता सानन्यकान्ता ह्युरसीतरा तु ॥
Metre: उपजातिः

Verse 13
कपाटविस्तीर्णमनोरमोरःस्थलस्थितश्रीललनस्य तस्य । आनन्दिताशेषजना बभूव सर्वङ्गसङ्गिन्यपरैव लक्ष्मीः ॥
Metre: उपजातिः

Verse 14
प्राणच्छिदां दैत्यपतेर्नखानामुपेयुषां भूषणतां क्षतेन । प्रकाशकार्कश्यगुणै दधानाः स्तनौ तरुण्यः परिव्रुरेनम् ॥

Verse 15
आकर्षतेवोर्ध्वमतिक्रशीयानत्युन्नतत्वात्कुचमण्डलेन । ननाम मध्योऽतिगुरुत्वभाजा नितान्तमाक्रान्त इवाङ्गनानाम् ॥
Metre: उपजातिः

Verse 16
यां यां प्रियः प्रैक्षत कातराश्क्षीं सा सा ह्रिया नम्रमुखी बभूव । निःःशङ्गमन्या सममाहितेर्ष्यास्तत्रान्तरे जघ्रुरमुं कटाक्षैः ॥
Metre: इन्द्रवज्रा

Verse 17
तस्यातसीसून समानभासो भ्राम्यन्मयूखावलीमण्डलेन । चक्रेण रेजे यमुनाजलौघः स्फुरन्महागर्त इवैकबाहुः ॥
Metre: उपजातिः

Verse 18
विरोधिनां विग्रहभेददक्षा मूर्तेव शक्तिः क्वचितस्खलन्ती । नित्यं हरेः संनिहिता निकामं मोदयति स्म चेतः ॥

Verse 19
न केवलं यः स्वतया मुरारेरसाधारणतां दधानः । अत्यर्थमुद्वेजयिता परेषां नाम्नापि तस्यैव नन्दकोऽभूत् ॥

Verse 20
न नीतमन्येन नतिं कदाचिकर्णान्तिकप्रप्तगुणं क्रयासु । विधेयमस्या भवदन्तिकस्थं शार्ङ्गं धनुर्मित्रमिव द्रढीयः ॥
Metre: उपजातिः

Showing 11 to 20 of 82 verses