कौबेरदिग्भागमपास्य मार्गमागस्त्यमिव आशुःइव अवतार्णः । अपेतयुद्धाभिनिवेशसौम्यो हरिहरप्रस्थमथ प्रतस्थे ॥
Metre: उपजातिः
जगत्पवित्रैःअपि तं न पादैः स्प्रष्टुं जगत्पूज्यमयुज्यत अर्कः । यतः बृहत्पार्वणचारु तस्यातपत्रं बिभरांबभूवे ॥
मृणालसूत्रामलमन्तरेण स्थितश्चलचामरयोर्द्वयं सः । भेजेऽभितःपातुकसिद्धसिन्धोरभूतपूर्वां रुचमम्बुराशेः ॥
Metre: उपजातिः
चित्राभिरस्योपरि मौलिभाजां भाभिर्मणीनामणीयसीभिः । अनेकधातुच्छुरिताश्मराशेर्गोवनर्धनस्याकृतिरन्वकारि ॥
Metre: उपजातिः
तस्योल्लसत्काञ्चनकुण्डलाग्रप्रत्युप्तगारुग्मतरस्रभासा । अवाप बाल्योचितनीलकण्ठपिच्छावचूडाकलनामिवोरः ॥
Metre: उपजातिः
तमङ्गदे मन्दरकूटकोटिव्याघट्टनोत्तेजनतया मणीनाम् । बंहीयसा दीप्तिवितानकेन चकासयामासतुरुल्लसन्ती ॥
Metre: उपेन्द्रवज्रा
निसर्गरक्तैर्वलयावनद्धताम्राश्मरश्मिच्छुरितैर्नखाग्रैः । व्यद्योताद्यापि सुरारिवक्षोविक्षोभजासृक्स्नपितैरिवासो ॥
Metre: इन्द्रवज्रा
उभौयदि व्योम्नि पृथक्प्रवाहावाकाशगङ्गापयसः पतेताम् । तेनोपमीयते तमालनीलमामुक्तमुक्तालतमस्य वक्षः ॥
Metre: उपजातिः
तेनाम्भसां सारसमयः पयोधेर्दधे मणिदीधितिदीपिताशः । अन्तर्वसन्बिम्बगतस्तदङ्गे साक्षादिवालक्ष्यत यत्र लोकः ॥
Metre: इन्द्रवज्रा
मुक्तामयं सारसानावलम्बिसभाति स्म दामाप्रपदीयमानस्य । अङ्गुष्ठनिष्ठ्यूतमिवोर्ध्वमुच्चैस्त्रिसस्रोतसः संततधारामम्भः ॥