शिशुपालवधम् - Sahitya | Sahitya | Rikamrit
Home All Resources
Vidyakendra
Vidyakendra Home
Back to Sahitya

Texts

raghuvamsa kumarasambhava kiratarjuniya shishupalavadha amarushataka shatakatrayam shakuntalam pancatantra kadambari shringaraprakasha meghaduta rtusamhara naishadhiya bhattikavya

Settings

16

Bookmarks

No bookmarks yet

शिशुपालवधम्

Enable Parallel


Showing 31 to 40 of 82 verses
Verse 31
दिदृक्षमाणः प्रतिरथ्यमीयुर्मुरारिमारादनघं जनौघाः । अनेकशः संस्तुतमप्यनल्पा नवं नवं प्रतिरहो करोति ॥
Metre: उपजातिः

Verse 32
उपेयुषो वर्त्म निरन्तराभिरसौ निरुच्छ्वासमनीकनीभिः । रथस्य तस्यां पुरि दत्तचक्षुर्विद्वान्विदामास शनैर्न यातम् ॥
Metre: उपजातिः

Verse 33
मध्येसमुद्रं ककुभः पिशङ्गीर्या कुर्वती काञ्चनवप्रभासा । तुरङ्गकान्तामुखहव्यवाहज्वालेव भित्वा जलमुल्ललास ॥
Metre: उपजातिः

Verse 34
कृतास्पदा भूमिभृतां सहस्रैरुदन्वदम्भःपरिवीतमूर्तिः । अनिर्विदा या विदधे विधात्रा पृथिवी पृथिव्याः प्रतियातनेव ॥
Metre: उपेन्द्रवज्रा

Verse 35
त्वष्टुः सदाभ्यासगृहीतशिल्पविदज्ञानसंपत्प्रसरस्य सीमा । अदृश्यतादर्शतलामलेषु छायेव या स्वर्जलधेर्जलेषु ॥

Verse 36
रथाङ्गभर्त्रेऽभिनवं वराय यस्याः पितेव प्रतिपादितायाः । प्रेम्णोपकण्ठं मुहुरङ्गभाजो रत्नवलीरम्बुधिराबबन्ध ॥
Metre: उपजातिः

Verse 37
यस्याश्चलद्वारिधिवीचिछ्छटोच्छलच्छङ्खकुलाकुलेन । वप्रेण पर्न्तचरोडुचक्रः सुमेरुवप्रोऽहमन्वकारि ॥
Metre: आर्यागीति (१२, २०, १२, २०)

Verse 38
वणिक्पथे पूगकृतानि यत्र भ्रमागतैरम्बुभिरम्बुराशिः । लोलैरलोद्युतिभाञ्जि मुष्णन्रत्नानि रत्नाकरतामवाप ॥
Metre: उपेन्द्रवज्रा

Verse 39
अम्भुच्युतः कोमलरत्नराशीनपांनिधिः फेनपिनद्धभासः । त्रातपे दातुमिवाधितल्पं विस्तारायमास तरङ्गहस्तैः ॥

Verse 40
यच्छालमुत्तङ्गतया विजेतुं दूरादुदस्थीयत सागरस्य । महोर्मिभिव्याहतवाञ्छितार्थैर्वीडादिवाभ्याशगतैर्विलिल्ये ॥
Metre: उपजातिः