शिशुपालवधम् - Sahitya | Sahitya | Rikamrit
Home All Resources
Vidyakendra
Vidyakendra Home
Back to Sahitya

Texts

raghuvamsa kumarasambhava kiratarjuniya shishupalavadha amarushataka shatakatrayam shakuntalam pancatantra kadambari shringaraprakasha meghaduta rtusamhara naishadhiya bhattikavya

Settings

16

Bookmarks

No bookmarks yet

शिशुपालवधम्

Enable Parallel


Showing 41 to 50 of 82 verses
Verse 41
कुतूहलेन जवादुपेत्य प्राकारभित्या सहसा निषिद्धः । रसन्नरोदीद्भृशमम्बुवर्षव्याजेन यस्या बहिरम्बुवाहः ॥
Metre: इन्द्रवज्रा

Verse 42
यदङ्गनरूपसरूपतायाः कञ्चिद्गुणं भेदकमिच्छतीभिः । आराधितोऽद्धा मनुरप्सरोभिश्चक्रे प्रजाः स्वाः सनिमेषचिह्नाः ॥
Metre: उपजातिः

Verse 43
स्फुरत्तुषारांशुमरीचिजालैर्विनुह्नुताः स्फटिकपङ्क्तीः । आरुह्य नार्यः क्षणदासु यत्र नभोगता देव्य इव व्याराजन् ॥

Verse 44
कान्तेन्दुकान्तोपलकुट्टिमेषु प्रतिक्षपं हर्म्यतलेषु यत्र । उच्चैरधपातिपयोमुचोऽपि समूहमूहुः पययसां प्रणाल्यः ॥
Metre: उपजातिः

Verse 45
रतौ ह्रिया यत्र निशाम्यदीपाञ्जालगताभ्योऽधिगृहं गृहिण्यः । बिभ्युर्बिडालेक्षणभीषणाभ्यो वैदूर्यकुड्येषु शशिद्युतिभ्यः ॥
Metre: उपजातिः

Verse 46
यस्यामतिश्लक्षणतया गृहेषु विधातुमालेख्यमशुक्नुवन्तः । चक्रुर्युवानः प्रतिबिम्बिताङ्गाः सजीवचित्रा इव रत्नभित्तीः ॥
Metre: उपेन्द्रवज्रा

Verse 47
सावर्ण्यभाजां प्रतिमागतानां लक्ष्यैः स्मरपाण्डुतयाङ्गनानाम् । यस्यां कपोलैः कलधौतधामस्तम्भेषु भेजे मणिदर्पणश्रीः ॥
Metre: उपजातिः

Verse 48
शुकाङ्गनीलोपलनिर्मितानां लिप्तेषु भासा गृहदेहलीनां । यस्यामलिन्देषु न चक्रुरेव मुग्धाङ्गना गोमयगोमुखानि ॥
Metre: उपजातिः

Verse 49
गोपानसीषु क्षणमास्थितानामालम्बिभिश्चन्द्रकाणां कलापैः । हरिन्मणिश्यामतृणाभिरामैगृहाणि नीध्रैरिव यत्र रेजुः ॥
Metre: उपजातिः

Verse 50
बृहत्तुलैरपिप्यतुलैर्वतानमालापिनद्धैरपि चावितानै । रेजे विचित्रैरपि या सचित्रैगृहैर्विशालैरपि भूरिशालै ॥
Metre: इन्द्रवज्रा

Showing 41 to 50 of 82 verses