शिशुपालवधम् - Sahitya | Sahitya | Rikamrit
Home All Resources
Vidyakendra
Vidyakendra Home
Back to Sahitya

Texts

raghuvamsa kumarasambhava kiratarjuniya shishupalavadha amarushataka shatakatrayam shakuntalam pancatantra kadambari shringaraprakasha meghaduta rtusamhara naishadhiya bhattikavya

Settings

16

Bookmarks

No bookmarks yet

शिशुपालवधम्

Enable Parallel


Showing 51 to 60 of 82 verses
Verse 51
चिक्रंसया कृत्रिमपत्त्रिपङ्क्तेः कपोतपालीषु निकेतनानां । मार्जारमप्यातनिश्चलाङ्कं यस्यां जनः कृत्रिममेव मेने ॥
Metre: इन्द्रवज्रा

Verse 52
क्षितिप्रतिष्ठोपि मुखारविन्दैर्वधूजनश्चन्द्रमधश्चकार । अतीतनक्षत्रपथानि यत्र प्रसादशृङ्गाणि वृथाध्यरुक्षत् ॥
Metre: उपेन्द्रवज्रा

Verse 53
रम्या इति प्राप्तवतीः पताका रागं विविक्ता इति वर्धयन्तीः । यस्यामसेवन्त नमद्वलीकाः समं वधूभिर्वलभीर्युवानः ॥
Metre: उपजातिः

Verse 54
सुगन्धितामप्रतियत्नपूर्वां बिभ्रन्ति यत्र प्रमदाय पुंसाम् । मधूनि वक्त्राणि च कामिनीनामामोदकर्मव्यतिहारमीयुः ॥
Metre: उपजातिः

Verse 55
रतान्तरे यत्र गृहान्तरेषु वितर्दिनिर्यूहविटङ्नीडः । रुतानिश्रुण्वन्वयसां गणोऽन्तेवासित्वमाप स्फुटमङ्गनानाम् ॥

Verse 56
छन्नेऽपि स्पष्टतरेषु यत्र स्वच्छानि नारीकुचमण्डलेषु । आकाशसाम्यं दधुरम्बराणि न नामतः केवलमर्थतःऽपि ॥
Metre: इन्द्रवज्रा

Verse 57
यस्यामजिह्मा महतीमपङ्गाः सीमानमत्यायतयोऽत्यजन्तः । जनैरजास्खलनै जातु द्वयेप्यमुच्यन्त विनीतमार्गाः ॥
Metre: इन्द्रवज्रा

Verse 58
परस्पस्फर्धिपरार्घ्यरूपाः पौरस्त्रियो यत्र विधाय वेधाः । श्रीनिर्मितप्राप्तगुणक्षतैकवर्णोपमावाच्यमलं ममार्ज ॥
Metre: इन्द्रवज्रा

Verse 59
क्षुण्णं यदन्तःकरणेनवृक्षाः फलन्ति कल्पोपदास्तदेव । अध्यूषुषो यामभवञ्जनस्य याः सम्पदस्ता मनसोऽप्यगम्याः ॥
Metre: इन्द्रवज्रा

Verse 60
कला दधानः सकलाः स्भाभिरुद्भासयन्सौधसिताभिराशाः । यां रेवतीजानिरियेष हातुं न रौहिणीयो न च रोहिणीशः ॥
Metre: इन्द्रवज्रा