शिशुपालवधम् - Sahitya | Sahitya | Rikamrit
Home All Resources
Vidyakendra
Vidyakendra Home
Back to Sahitya

Texts

raghuvamsa kumarasambhava kiratarjuniya shishupalavadha amarushataka shatakatrayam shakuntalam pancatantra kadambari shringaraprakasha meghaduta rtusamhara naishadhiya bhattikavya

Settings

16

Bookmarks

No bookmarks yet

शिशुपालवधम्

Enable Parallel


Showing 51 to 60 of 118 verses
Verse 51
तेजस्विमध्ये तेजस्वी दवीयानपि गण्यते । पञ्चम पञ्चपसस्तपनो जातवेदसाम् ॥
Metre: अनुष्टुप्

Verse 52
अकृत्वा हेलया पादमुच्चैर्मूर्धसु विद्वषाम् । कथङ्कारमनालम्बा कीर्तिद्यामधिरोहति ॥
Metre: अनुष्टुप्

Verse 53
अङ्गाधिरोपितश्चन्द्रमा मृगलाञ्छनः । केशरी निष्ठुराक्षिप्तमृगयूथो मृगाधिपः ॥
Metre: अनुष्टुप्

Verse 54
चतुर्थोपायसाध्येतु रिपौ सान्त्वमपक्रिया । स्वेद्यमामज्वरं प्राज्ञः कोऽम्भसा परिषिञ्चति ॥
Metre: अनुष्टुप्

Verse 55
सामवादाः सकोपस्य तस्य प्रत्युत दीपकाः । प्रतप्तस्येव सहसा सर्पिषस्तोयबिन्दवः ॥
Metre: अनुष्टुप्

Verse 56
गुणानामायथातथ्यादर्थं विप्लावयन्ति ये । अमात्यव्यञ्जनाराज्ञां दूष्यास्ते शत्रुसंज्ञिताः ॥
Metre: अनुष्टुप्

Verse 57
स्वशक्त्युपचये केचित्परस्य व्यसनेऽपरे । यानमाहुस्तदासीनं त्वामुत्थापयति द्वयम् ॥
Metre: अनुष्टुप्

Verse 58
लिलङ्घयिषतो लोकानलङ्घ्यानलघीयसः । यादवाम्भोनिधीन्रुन्धे वेलेव भवतः क्षमा ॥
Metre: अनुष्टुप्

Verse 59
विजयस्वयि सेनायाः साक्षिमात्रेऽपादिश्यताम् । फलभाजि समीक्ष्योक्ते बुद्धेर्भोग इवात्मनि ॥
Metre: अनुष्टुप्

Verse 60
हृतेहिडिम्बरिपुणा राज्ञि द्वैमातुरे युधि । चिरस्य मित्त्रव्यसनि सुदमो दमघोषजः ॥
Metre: अनुष्टुप्

Showing 51 to 60 of 118 verses