शिशुपालवधम् - Sahitya | Sahitya | Rikamrit
Home All Resources
Vidyakendra
Vidyakendra Home
Back to Sahitya

Texts

raghuvamsa kumarasambhava kiratarjuniya shishupalavadha amarushataka shatakatrayam shakuntalam pancatantra kadambari shringaraprakasha meghaduta rtusamhara naishadhiya bhattikavya

Settings

16

Bookmarks

No bookmarks yet

शिशुपालवधम्

Enable Parallel


Showing 61 to 70 of 118 verses
Verse 61
नीतिरापदि यद्गम्यः परस्तन्मानिनो ह्रिये । विधुर्विधुन्तस्येव पूर्णस्तस्योत्सवाय सः ॥
Metre: अनुष्टुप्

Verse 62
अन्यदुच्छृङ्घलं सत्वमन्यत्छ्छास्त्रनियन्त्रितं । सामानाधिकरण्यं हि तेजस्तमिरयोः कुतः ॥
Metre: अनुष्टुप्

Verse 63
इन्द्रप्रस्थगमस्तावत्कारि मा सन्तु चेदयः । आस्माकदन्तिसान्निध्याद्वामनीभूतभूरुहः ॥
Metre: अनुष्टुप्

Verse 64
निरुद्धवीवधासारप्रसारा गा इव व्रजम् । उपरुन्धन्तु दाशार्हाः पुरीं माहिष्मतीं द्विषः ॥
Metre: अनुष्टुप्

Verse 65
यजतां पाण्डवः स्वर्गमवत्विन्द्रस्पस्विनः । वयं हनाम द्विषतः सर्वः स्वार्थं समीहते ॥
Metre: अनुष्टुप्

Verse 66
प्राप्यतां विद्युतां संपद्संपर्कादर्करोचिषाम् । शस्त्रैद्विषच्छिरश्छेदप्रोच्छलच्छोणितोक्षितैः ॥
Metre: अनुष्टुप्

Verse 67
इतिसंरम्भिणो वाणीर्बलस्यालेख्यदेवताः । सभाभित्तिप्रतिध्वनैर्भयादन्ववदन्निव ॥
Metre: अनुष्टुप्

Verse 68
निशम्य ताः शेषगवीरमभिधातुमधोक्षजः । शिष्याय बृहतां प्रत्युः प्रस्तावमदिशद्दृशा ॥
Metre: अनुष्टुप्

Verse 69
भारतीमाहितभरामथानुद्धतमुद्धवः । तथ्यामुतथ्यानुजवज्जगादाग्रे गदाग्रजम् ॥
Metre: अनुष्टुप्

Verse 70
संप्रत्यसांप्रतं वक्तुमुक्ते मुसलपाणिना । निर्धारितेर्ऽथे लेखेनखलूक्त्वा खलुवाचिकम् ॥
Metre: अनुष्टुप्

Showing 61 to 70 of 118 verses