निशान्तनारीपरिधानधूननस्फुटागसाप्यूरुषु लोलचक्षुषः । प्रियेण तस्यानपराधबाधिताः प्रकम्पनेनानुचकम्पिरे सुराः ॥
Metre: वंशस्थम्
तिरस्कृतस्तस्य जनाभिभाविना मुहुर्महिम्ना महसां महीयसां । बभार बाष्पैर्द्वगुणीकृतं तनुतनूनपाद्धूममवितानमाधिजैः ॥
Metre: वंशस्थम्
परस्यमर्मविधमुज्झतां निजं द्विजिह्वतादोषमजिह्मगामिभिः । तमिद्धमाराधयितुं सकर्णकैः कुलैर्न भेजे फणिनां भुजङ्गता ॥
Metre: वंशस्थम्
तदीयमातङ्गघटाविघट्टितैः कटस्थलप्रोषितदानवारिभिः । गृहीतदिक्कैरपुनर्निवर्तिभिश्चिराय याथार्थ्यमलम्बि दिग्गजैः ॥
Metre: वंशस्थम्
अभीक्ष्णमुष्णैरपि तस्य सोष्मणः सुरेन्द्रवन्दीश्वसितानिलैर्यथा । सचन्दनाम्भःकणकोमलैस्तथा वपुर्जलार्द्रापवनैर्न निर्वबौ ॥
Metre: वंशस्थम्
तपेन वर्षाः शरदा हिमागमो वसन्तलक्ष्म्या शिशिरः समेत्य च । प्रसूनकॢप्तिं दधतः सदर्तवः पुरोस्य वास्तव्यकुटुम्बितां ययौ ॥
Metre: वंशस्थम्
अमानवं जातमजं कुले मनोः प्रभाविनं भाविन्नमन्तमात्मनः । मुमोच जानन्नपि जानकीं न यः सदभिमानैकधना हि मानिनः ॥
Metre: उपजातिः
स्मरत्यदो दाशरथिर्भवानमुं वनान्ताद्वनितापहारिणम् । पयोधिमाबद्धचलज्जलाबिलं विलङ्घ्यलङ्गां निकषा हनिष्यति ॥
Metre: वंशस्थम्
अतोपपत्तिं छलनापरोऽपरामवाप्य शैलूष इवैष भूमिकां । तिरोहितात्मा शिशुपालसंज्ञया प्रतीयते संप्रति साप्यसः परैः ॥
Metre: वंशस्थम्
स बाल आसीद्वपुषा चतुर्भुजो मुखेन पूर्णेन्दुनिभस्त्रिलोचनः । युवाकराक्रान्तमहीभृदुच्चकैरसंशयं संप्रति तेजसा रविः ॥
Metre: वंशस्थम्