कृत्वा कृत्यविदस्तीर्थेष्वन्तः प्रणिधयः पदम् । विदां कुर्वन्तु महतस्तलं विद्विषम्भसः ॥
Metre: अनुष्टुप्
अनुत्सूत्रपदन्यासा सद्वृत्ति सन्निबन्धना । शब्दविद्येव नो भाति राजनीतिरस्पशा ॥
अज्ञातदोषैर्देषज्ञैरुद्दूष्योभयवेतनैः । भेद्याः शत्रोरभिव्यक्तशासनैः सामवायिकाः ॥
Metre: अनुष्टुप्
उपेयिवांसि कर्तारः पुरीमाजातशत्रवीम् । राजन्यकान्युपायज्ञैरेकार्थानि चरैस्तव ॥
Metre: अनुष्टुप्
सविशेषं सुते पाण्डोर्भक्तिं भवति तन्वति । वैरायितारस्तरलाः स्वयं मत्सरिणस्तरले ॥
Metre: अनुष्टुप्
य इहात्मविदो विपक्षमध्ये सह संवृद्धियुजोऽपि भूभुजः स्युः । बलिपुष्टकुलादिवान्यपुष्टैः पृथगस्मादचिरेण भाविता तैः ॥
Metre: औपच्छन्दसिक = [११: ससजगग] १,३ + [१२: सभरय] २,४
सहजदोषचापलसमुद्धतश्चलितदुर्बलपक्षपरिग्रहः । तव दुरासदवीर्यविभावसौ शलभतां लभतामसुहृद्गणः ॥
Metre: द्रुतविलम्बितम्
इति विशकलितार्थमौद्धवींवाचमेनामनुगतनयमार्गमर्गलां दुर्नयस्य । जनितमुदमुदस्थादुच्चकैरुच्छ्रितोरःस्थलनियतनिषण्णश्रीश्रुतां शुश्रुवान्सः ॥
Metre: उपजातिः