शिशुपालवधम् - Sahitya | Sahitya | Rikamrit
Home All Resources
Vidyakendra
Vidyakendra Home
Back to Sahitya

Texts

raghuvamsa kumarasambhava kiratarjuniya shishupalavadha amarushataka shatakatrayam shakuntalam pancatantra kadambari shringaraprakasha meghaduta rtusamhara naishadhiya bhattikavya

Settings

16

Bookmarks

No bookmarks yet

शिशुपालवधम्

Enable Parallel


Showing 101 to 110 of 118 verses
Verse 101
तस्य मित्राण्यमित्रास्ते ये च ये चोभये नृपाः । अबियुक्तं त्वयैनं ते गन्तारस्त्वामतः परे ॥
Metre: अनुष्टुप्

Verse 102
मखविघ्नाय सकलमित्थमित्युत्थाप्य राजकम् । हन्त जातमजातारेः प्रथमेन त्वयारिणा ॥
Metre: अनुष्टुप्

Verse 103
संभाव्य त्वामतिभरक्षमस्कन्धं सबान्धवः । सहायमध्वरधुरां धर्मराजो विवक्षते ॥
Metre: अनुष्टुप्

Verse 104
महात्मनोऽनुगृह्णन्ति भजमानान्रिपूनपि । सपन्तीः प्रापयन्त्यब्धिं सिन्धवो नगनिम्नगा ॥
Metre: अनुष्टुप्

Verse 105
चिरादपि बलात्कारो बलिनः सिद्धयेऽरिषु । छन्दानुवृत्तिदुःःसाध्याः सुहृदो विमनीकृताः ॥
Metre: अनुष्टुप्

Verse 106
मन्यसेऽरिवधः श्रेयान्प्रीतये नाकिनामिति । पुरोडाशभुजामिष्टमिष्टं कर्तुमलन्तरां ॥
Metre: अनुष्टुप्

Verse 107
अमृतं नाम यत्सन्तो मन्त्रजिह्वेषु जुह्वति । शोभैव मन्दरक्षुब्धक्षुभिताम्भोधिवर्णना ॥
Metre: अनुष्टुप्

Verse 108
सहिष्ये शतमागांसि सूनोस्त इति यत्वया । प्रतीक्ष्यन्तत्प्रतीक्ष्यायै पितृष्वस्रे प्रतिश्रुतम् ॥
Metre: अनुष्टुप्

Verse 109
तीक्ष्णा नारुन्तुदा बुद्धिः कर्म शान्तं प्रतापवत् । नोपतापि मनः सोषमवागेका वाग्मिनः सतः ॥
Metre: उपगीति (१२, १५, १२, १५)

Verse 110
स्वयङ्कृतप्रसादस्य तस्याह्नो भानुमानिव । समयावधिमप्राप्यय नान्तायालं भवानपि ॥
Metre: अनुष्टुप्

Showing 101 to 110 of 118 verses