अप्यनारभमाणस्य विभोरुत्पादिताः परैः । व्रजन्ति गुणतामर्थाः शब्दा इव विहायसः ॥
Metre: अनुष्टुप्
यातव्यपार्ष्णिग्राहादिमालायामधिकद्युतिः । एकार्थतन्तुप्रोतायां नायको नायकायते ॥
Metre: अनुष्टुप्
षाड्गुण्यमुपयुञ्जीत शक्त्यपेक्षो रसायनं । भवन्त्यस्येवमङ्गानि स्थास्नूनि बलवन्ति च ॥
Metre: अनुष्टुप्
स्थाने शमवतां शक्त्या व्यायामे वृद्धिरङ्गिनां । अयथाबलमारम्भो निदानं क्षयसंपदः ॥
Metre: अनुष्टुप्
तदीशितारं चेदिनां भवांस्तमवमंस्त मा । निहन्त्यरीनेकपदे य उदात्तः स्वरानिव ॥
Metre: अनुष्टुप्
मा वेदि यदसावेको जेतव्यश्चेदिराडिति । राजयक्ष्मेव रोगाणां समूह स महीभृतां ॥
Metre: अनुष्टुप्
संपादितफलस्तेन सपक्षः परभेदनः । कार्मुकेणेवगुणिना बाणः संधानमेष्यति ॥
Metre: अनुष्टुप्
ये चान्ये कालयवनशाल्वरुक्मिद्रुमादयः । तमःस्वभावस्ते।प्येनं प्रदोषमनुयायिनः ॥
Metre: अनुष्टुप्
उपजापः कृतस्तेन तानाकोपवतस्त्वयि । आशु दीपयिताल्पोऽपि साग्नीनेधानिवानिलः ॥
Metre: अनुष्टुप्
बृहत्सहायः कार्यान्तं क्षोदीयानपि गच्छति । संभूयाम्भोधिमभ्येति महानद्या नगापगा ॥
Metre: अनुष्टुप्