शिशुपालवधम् - Sahitya | Sahitya | Rikamrit
Home All Resources
Vidyakendra
Vidyakendra Home
Back to Sahitya

Texts

raghuvamsa kumarasambhava kiratarjuniya shishupalavadha amarushataka shatakatrayam shakuntalam pancatantra kadambari shringaraprakasha meghaduta rtusamhara naishadhiya bhattikavya

Settings

16

Bookmarks

No bookmarks yet

शिशुपालवधम्

Enable Parallel


Showing 31 to 40 of 68 verses
Verse 31
व्योमस्पृशः प्रथयता कलधौतभित्तीरुन्निद्रपुष्पचणचम्पकपिङ्गभासः । सौमेरवीमधिगतेन नितम्बशोभामेतेन भारतमिलावृतवद्विभाति ॥
Metre: वसन्ततिलका

Verse 32
रुचिरचित्रतनूरुहशालिभिर्विचलितैः परितः प्रियकव्रजैः । विवधरत्नमयैरभिबात्यसाववयवैरिव जङ्गमतां गतैः ॥
Metre: द्रुतविलम्बितम्

Verse 33
कुशशयैरत्र जलाशयोषिता मुदारमन्ते कलभाविकस्वरैः । प्रगीयते सिद्धगणैश्च योषितामुदारम कलभाविकस्वरैः ॥

Verse 34
आसादितस्य तमसा नियतेर्नियोगादाकाङ्क्षतःपुनरपक्रमणेन कालम् । पत्युस्त्वषामिह महौषधयः कलत्रस्थानं परैननभिभूतममूर्वहन्ति ॥
Metre: वसन्ततिलका

Verse 35
वनस्पतिस्कन्धनिषण्णबालप्रवालहस्ताः प्रमदा इवात्र । पुष्पेक्षणैलम्भितलोचकैर्वा मधुव्रतव्रातवृतैर्व्रतत्यः ॥
Metre: उपजातिः

Verse 36
विहगाः कदम्बसुरभाविह गाः कलयन्तनुक्षणमनेकलयम् । भ्रमयन्नुपैति मुहुरभ्रमयं पवनश्च धूतनवनीपवनः ॥
Metre: प्रमिताक्षरा

Verse 37
विद्वद्भिरागमपरैर्विवृतं कथञ्चिच्छ्रुत्वापि दुर्ग्रहमनिश्चितधीभिरन्यैः । श्रेयान्द्विजातिरिव हन्तुमघानि दक्षं गूठार्थमेष निधिमन्त्रगणं बिभर्ति ॥
Metre: वसन्ततिलका

Verse 38
बिम्बोष्ठं बहु मनुते तुरङ्गवक्त्रश्चुम्बन्तं मुखमिह किंनरं प्रियायाः । श्लिष्यन्तंमुहुरितरोऽपि तं निजस्त्रीमुत्तुङ्गस्तनभरभङ्गभीरुमध्याम् ॥
Metre: प्रहर्षिणी

Verse 39
यदेतदस्यानुतटं विभाति वनं ततानेकतमालतालम् । न पुष्पितात्र स्थगितार्करस्मावनान्तताने कतमा लतालम् ॥
Metre: उपेन्द्रवज्रा

Verse 40
दन्तोज्ज्वलासु विमलोपलमेखलान्ताः सद्रत्नचित्रकटकासु बृहन्नितम्बाः । अस्मिन्भजन्ति घनकोमलगण्डशैला नार्योऽनुरूपमधिवासमधित्यकासु ॥
Metre: वसन्ततिलका