शिशुपालवधम् - Sahitya | Sahitya | Rikamrit
Home All Resources
Vidyakendra
Vidyakendra Home
Back to Sahitya

Texts

raghuvamsa kumarasambhava kiratarjuniya shishupalavadha amarushataka shatakatrayam shakuntalam pancatantra kadambari shringaraprakasha meghaduta rtusamhara naishadhiya bhattikavya

Settings

16

Bookmarks

No bookmarks yet

शिशुपालवधम्

Enable Parallel


Showing 51 to 60 of 79 verses
Verse 51
विगतवारिधरावरणाः क्वचिददृशुरुल्लसितासितासिताः । क्वचिदिवेन्द्रगजाजिनकञ्चुकाः शरदि नीरदिनीर्यदेवो दिशः ॥
Metre: आर्यागीति (१२, २०, १२, २०)

Verse 52
विलुलितामनिलैः शरदङ्गना नवसरोरुहकेशरसम्भवाम् । विकरितुं परिहासविधित्सया हरिवधूरिव धूलिमुधक्षिपत् ॥
Metre: द्रुतविलम्बितम्

Verse 53
हरितपत्रमयीव मरुद्गणैः स्रगवनद्धमनोरमपल्लवा । मधुरिपोरभिताम्रमुखी मुदं दिवि तता विततान शुकावलिः ॥
Metre: द्रुतविलम्बितम्

Verse 54
स्मितसरोरुहनेत्रसरोजलामतिसितङ्गविहङ्गहसद्दिवम् । अकलयन्मुदितामिव सर्वतः स शरदन्तुरदिह्मुखाम् ॥
Metre: द्रुतविलम्बितम्

Verse 55
गजद्वयसीरपि हैमनस्तुहिनयन्सरितः पृषतां पतिः । सलिलसन्ततिमध्वगयोषितामतुनतातनुतापकृतं दृशां ॥

Verse 56
इदमयुक्तमहो महदेव यद्वरतनोः स्मरयत्यनिलोऽन्यदा । स्मृसयौवनसोष्मपयोधरान्सतुहिनस्तु हिनस्तु वियोगिनः ॥
Metre: द्रुतविलम्बितम्

Verse 57
प्रियतमेन यया सरुषा स्थितं न सह सा सहसा परिरभ्य तम् । श्लथयितुं क्षणमक्षमतामङ्गना न सह सा सहसा कृतवेपथुः ॥
Metre: द्रुतविलम्बितम्

Verse 58
भृशमदूयत याधरपल्लवक्षतिरनावरणा हिममारुतैः । दशनरश्मिपटेन च सीत्कृतैर्निवासितेव सितेन सुनिर्ववौ ॥
Metre: आर्यागीति (१२, २०, १२, २०)

Verse 59
व्रणभृता सुतनोः कलसीकृतस्फुरितदन्तमरीचिमयं दधे । स्फुटमिवावरणं हिमारुतैर्मृदुतया दुतयाधरलेखया ॥
Metre: द्रुतविलम्बितम्

Verse 60
धृततुषारकणस्य नभस्वतस्तरुलताङ्गुलितर्जनविभ्रमाः । पृथु निरन्तरमिष्टभुजान्तरं वनितयानितया न विषेहिरे ॥
Metre: द्रुतविलम्बितम्