जलदपङ्क्तिरनर्तयदुन्मदंकलविलापि कलापिकदम्बकम् । कृतसमार्जनमर्दलमण्डलध्वनिजया निजया स्वनसंपदा ॥
Metre: द्रुतविलम्बितम्
नवकदम्बजोऽरुणिताम्बरैरधिपुरन्ध्रि शिलीन्ध्रसुगन्धिभिः । मनसि रागवतामनुरागिता नवनवा वनवायुभिरादधे ॥
Metre: द्रुतविलम्बितम्
शमिततापमपोढमहीरजः प्रथमबिन्दुभिरम्बुमुचोऽम्भसां । प्रविरलैरचलाङ्गनमङ्गनाजनसुगं न सुगन्धि न चक्रिरे ॥
Metre: द्रुतविलम्बितम्
द्विरदवलक्षमलक्ष्यत स्फुरितभृङ्गमृच्छवि केतकम् । घनघनौघविघट्टनया दिवः कृशसिखं शशिखण्डमिव च्युतम् ॥
Metre: गीति (१२, १८, १२, १८)
दलितमौक्तिकचूर्णविपाण्डवः स्फुरितनिर्झरशीकरचारवः । कुटजपुष्पपरागकणाः स्फुटं विदधिरे दधिरेणुविडम्बनाम् ॥
Metre: द्रुतविलम्बितम्
नवपयःकणकोमलमालतीकुसुमसंततिसंततसङ्गिभिः । प्रचलितोडुनिभैः परिपाण्डिमाः शुभरजोभरजोऽलिभिराददे ॥
Metre: द्रुतविलम्बितम्
निजरजः पटवासमिवाकिरद्धृतपटोपमवारिमुचां दिशां । प्रियवियुक्तवधूजनचेतसामनवनी नवनीपवनावलिः ॥
Metre: द्रुतविलम्बितम्
प्रणयकोपभृतोऽपि पराङ्मुखाः सपदि वारिधरारवभीरवः । प्रणयिनः परिरब्धुमथाङ्गना ववलिरे वलिरेचितमध्यमाः ॥
Metre: द्रुतविलम्बितम्
विगतरागगुणोऽपि जनो न कश्चलति वाति पयोदनभस्वति । अभिहितेऽलिभिरेवमिवोच्चकैरननृते ननृते नवपल्लवैः ॥
Metre: द्रुतविलम्बितम्
अरमयन्भवनादचिरद्युतेः किल भयादमपयातुमनिच्छवः । यदुनरेन्द्रगणं तरुणागणास्तमथ मन्मथमन्थरभाषिणः ॥
Metre: द्रुतविलम्बितम्