सखि स सुभगो मन्दस्नेहो मयीति न मे व्यथा विधिविरचितं यस्मात् सर्वो जनस्सुखमश्नुते।
मम तु मनसस्सन्तापोऽयं जने विमुखेऽपि यत् क्षणमपि हतव्रीडं चेतो न याति विरागिताम्॥ ३७३॥
मानोन्नतेत्यसहनेत्यतिपण्डितेति मय्येव धिक्कृतिरनेकमुखी सखीनाम्।
दाक्षिण्यमात्रमसृणेन विचेष्टितेन धूर्तस्य तस्य हि गुणानुपवर्णयन्ति॥ ३७४॥
ण वि तेण तहा तविआ जह इमिणा मामि दड्ढहिअएण। बहु ॰ ॰ ॰ ॰ ॰ ॰ तिं कुणंतेण॥ ३७५॥
(नापि तेन तथा तापिता तथाऽनेन मामि दग्धहृदयेन।
बहु ॰ ॰ ॰ ॰ ॰ ॰ न्ति कुर्वता॥)