अच्छउ ता अण्णजणो हिअअं चिअ अप्पणो तुह पमाणं।
तह तंसि मंदणेहो जह ण उवालंभजोग्गो सि॥ ३७१॥
(आस्तां तावद् अन्यजनो हृदयमेवात्मनः तव प्रमाणम्।
तथा त्वमसि मन्दस्नेहो यथा नोपालम्भयोग्योऽसि॥)
६. अप्रक्रमनिन्दा यथा—(गास. ७.१७)
किं भणह मं सहीओ करेहि माणंति किंत्थ माणेण।
सभावबाहिरे तम्मि मज्झ माणेण वि ण कज्जं॥ ३७२॥
(किं भणथ मा सख्यः कुरु मानमिति किमत्र मानेन।
स्वभावबाह्ये तस्मिन् मम मानेनापि न कार्यम्॥)