पादपतितस्य हरेः पतिताः पृष्ठे बाष्पसलिलबिन्दवः॥)
(२२. मानोपशमलक्षणानि —१२)
अथ मानोपशमलक्षणानि— नयननिमीलनम्, मुखप्रसादः, बाष्पमोक्षः, पुलकोद्भेदः, दोषप्रतिभेदः, अक्रमनिन्दा, उपालम्भः, प्रत्युपालम्भः, मनोजुगुप्सा, मानानुशयः, मानयोग्या, मानानुयोग इति। तेषु —
दइआलोअपअत्ता अंतोच्छीण पसरंत-वाह-विअलिआ।
मउलइ-अंबुअ-पसरा तीसे दसणसुहं ण पावइ दिठ्ठी॥ ३६७॥
(दयितालोकप्रवृत्ताऽव्युच्छिन्न—प्रसरद्—बाष्पविकलिता।
मुकुलिताऽम्बुज—प्रसरा तस्या दर्शनसुखं न प्राप्नोति दृष्टिः॥)
आलोइए च्चिअ पिए ठविओ तीए मअणेण मोहणसुहओ।