कुसुमधणुम्मि बाणो वलइअविब्भमउणे मुहम्मि पहरिसो॥ ३६८॥
(आलोकित एव प्रिये स्थापितः तस्या मदनेन मोहनसुभगः।
कुसुमानमित—धनुषि बाणो वलयितविभ्रमगुणे मुखे प्रहर्षः॥)
३. बाष्पमोक्षो यथा—(अमरु. ५०)
अङ्गनामतितानवं कुत इदं कम्पश्च कस्मात् कुतो मुग्धे पाण्डुकपोलमाननमिति प्राणेश्वरे पृच्छति।
तन्व्या सर्वमिदं स्वभावजमिति व्याहृत्य पक्ष्मान्तर— व्यापी बाष्पभरस्तया चलितया निःश्वस्य मुक्तोऽन्यतः॥ ३६९॥
४. पुलकोद्भेदो यथा—(किराता. ९.४६)
शङ्किताय कृतबाष्पनिपातामीर्ष्यया विमुखितां दयिताय।
मानिनीमभिमुखस्थितचित्तां शंसति स्म घनरोमविभेदः॥ ३७०॥
५. दोषप्रतिभेदो यथा—(गास. ३.१)