तान्येतानि शिखण्डिताण्डवगुरूनम्भोधरानम्बरे तन्वानानि दिनानि नूनममृतस्यन्दीनि वन्दामहे।
उद्गाढा नवनीलनीरजदृशामत्यन्तमायामिनो भिद्यन्ते स्वयमेव येषु विषमा मानग्रहग्रन्थयः॥ ३४६॥
५. उपवनविकसो यथा—(गास. ७७९वे.)
कारणगहिओ वि मए माणो एमेअ जं समोसरिओ।
अत्थक्क—फुल्लिअंकोल्ल तुज्झ तं मत्थए पडउ॥ ३४७॥
(कारणगृहीतोऽपि मया मान एवमेव यत्समपसृतः।
अकाण्डपुष्पिताङ्कोल तव तत् मस्तके पततु॥)
६. सुरभिवनवातः यथा—(लीलावती ३२)
अह णवर तत्थ दोसो जं गिम्ह-पओस-मल्लिआमोओ।