(गृह्यन्त आत्मनैव कृतापराधा अपि कामिनीमिः प्रियतमाः।
किमिति शिक्षयन्नपराध्यति, प्रियं करोति मधुमदः॥)
चंदामअ-पडिजीविअ-कवाल-मुक्क-ट्टहास-भीआए।
गोरीए माण-विघडण-घडंत-देहो हरो जअइ॥ ३४४॥
(चन्द्रामृतप्रतिजीवितकपालमुक्ताट्टहासभीतायाः।
गौर्या मानविघटनघटमानदेहो हरो जयति॥)
पौलस्त्यपीनभुजसम्पदुदस्यमान— कैलाससम्भ्रमविलोलदृशः प्रियायाः।
श्रेयांसि वो दिशतु निह्नुतकोपचिह्न— मालिङ्गनोत्पुलकमासितमिन्दुमौलेः॥ ३४५॥