कर्त्ता यथा—कृतवान् कटम्, उपेयिवान् ग्रामम्, विद्वान् व्याकरणम्, अधीयन् पारायणम्, धारयन्नुपनिषदम्, द्विषान्नितिहासम्, कुर्वन् कटम्, कटं कुर्वाणः; विदिता जनापवादान् प्रजागरितापररात्रान्, कन्यामलङ्करिष्णुः, दिवमुत्पतिष्णुः, ग्राममागामुकः, योषामभिलाषुकः, ओदनं बुभुक्षुः, श्रियमाशंसुः, दादिर्गाः, पपिस्सोमम्, अवश्यंदायी, शतंदायी, ग्रामङ्गामी, ग्राममागामी, कटं कारको व्रजति, ओदनं पाचको व्रजतीति।
भावकर्म यथा— क्रियाः क्रियन्ते, विधयो विधीयन्ते, उष्ट्रासिका आस्यन्ते, हतशायिकाश्शय्यन्ते, अर्हति भवानिक्षुभक्षिकाम्, इक्षुभक्षिकां में धारयसि, व्यावहासीं विदधते (३.३. ४३ काशिका), सांकूटिनं कुर्वन्ति, उत्सवमामन्त्रयै, समाजमामन्त्रयै, आमन्त्रणमामन्त्रयै, मन्त्रणं निमन्त्रयै, कां त्वं कारिमकार्षीः (३.३. ११०), कां कारिकाम् कां कृतिम् कां क्रियाम्, का कृत्याम्; किं कृतम्, सर्वां कारिमकार्षम्, सर्वां कारिकाम्, सर्वां कृतिम्, सर्वां क्रियां, सर्वां कृत्याम्, सर्वं कृतमिति।
भावकर्त्ता यथा— ब्रह्मभूयं वर्त्तते, ब्रह्महत्या न भवति, पाको वर्त्तते, त्यागो भवति, सांराविणं वर्त्तते, आखूत्थो भवति (३.२. ४ मभा.), अन्वेषणा वर्त्तते, व्यावभाषी भवति, समजः पशूनाम्, उदजः पशूनाम्, गवामुपसरः (३.३. ७१), ऋतूनां पर्यायः, भवत आसिका, भवतः शायिका, अभ्यूषखादिका वर्त्तते, इक्षुभक्षिका उदपादि, शिरोर्त्तिर्वर्त्तते (३.३. १०८), प्रवाहिका न भवति, शिरोरोगः शिरोबाध /?/ते, अरोचको न भवति, निग्राहस्ते वृषल (३.३.४५ काशिका), अवग्राहस्ते वृषल, अजननिस्ते वृषल (३.३. ११२), अभवनिस्ते वृषल भूयादिति।
कर्मकर्त्ता यथा— स्वयं धौतो पादौ, स्वयं विलीनमाज्यम्, अकृष्टपच्याश्शालयः (३.१. ११४), पचेलिमा माषाः {३.१. ९६(१)}, भिदेलिमानि काष्ठानि, भिदुरा भूः, छिदुरा रज्जुः, भङ्गुरं काष्ठम्, आरोहयमाणो हस्ती, लूयमानः केदारः, ब्रुवाणा कथा, भूषमाणा कन्या, ग्रथ्नाना स्त्रक्, श्रथ्नाना स्त्रक्, चिकीर्षमाणः कटः, अवकिरमाणो हस्ती, नयमानो दण्डः उच्छ्रायमाणो दण्डः, दुहाना धेनुः, प्रस्नुवाना धेनुः, रुन्धाना गौः आघ्नाना गौः, रज्यद् वस्त्रम्, कुष्यन् पाद इति।
अन्ये पुनरमीषामपि कर्मकर्त्तृत्वं मन्यन्ते—प्रकृतः कटं भवान्, प्रकृतः कटो भवता, यातः पन्थानं भवान्, यातः पन्था भवता, आसीनो मासं भवान्, आसीनो मासो भवता, भुङ्क्ते ओदनं भवान्, भुक्त ओदने भवता, अधिशयितः खट्वां भवान्, अधिशयिता खट्वा भवता, आरूढो वृक्षं भवान्, आरूढो वृक्षो भवता, आश्लिष्टः प्रियां भवान्, आश्लिष्टा प्रिया भवता, उपस्थितः सूर्यं भवान्, उपस्थितः सूर्यो भवता, उपासितोऽग्निं भवान्, उपासितोऽग्निर्भवता, अनूषितो गुरुं भवान् (३.४. ७२ काशिका), अनूषितो गुरुर्भवता, अनुजातो माणवको माणाविकाम्, अनुजाता माणाविका माणवकेन, अनुजीर्णो वृषलीं देवदत्तः, अनुजीर्णा वृषली देवदत्तेन इति। तन्न सम्यग् वाक्यभेदात्॥
ननु च भावनाक्षेपलब्धः कर्त्ता न तिङ्वाच्यः।
तत् कथमुच्यते कर्त्तृपदं, भावकर्त्तृपदं, कर्मकर्त्तृपदं चेति।
तथाहि— अन्वयव्यतिरेकाभ्यां शब्दस्याभिधानशक्तिः कल्प्यते। भावनाक्षेपेण च प्रतीयते; कर्त्तरि न तत्र प्रत्ययस्यान्वयव्यतिरेकौ कल्प्यते, यथा जात्याक्षेपेण व्यक्तेः प्रतीतौ न तां प्रति शब्दस्य वाचकशक्तिकल्पनोपपत्तिमती।
कथं पुनः कर्त्तुरनभिधाने प्रत्ययस्य वचनपुरुषभेदो युज्यते?