इच्छामि भुञ्जीत भवान्, इच्छामि भुङ्क्तां भवना्, कामये यत् स भुञ्जीत, प्रार्थये यदि स भञ्जीत, संभावयामि भुञ्जीत भवान्, समर्थयामि भोक्ष्यते भवान्, श्रद्दधे नाभुङ्क्त भवान्, अवकल्पयामि नाभोक्ष्यत भवान्, न श्रद्धधे ननु भवान् वृषलं याजयेत्, नावकल्पयामि तत्रभवान् वृषलं याजयिष्यति, न मर्षयामि तत्रभवान् वृषलमयायजिष्यत्, विगर्हे अपि तत्रभवान् वृषलं याजयति, स्मरसि देवदत्त कश्मीरेषु वत्स्यामः, अभिजानासि कलिङ्गेषु यदवसाम, अभिजानासि कलिङ्गेषु शश्वदवसाम, स्मरसि कश्मीरेषु वत्स्याम, तत्रौदनं भोक्ष्यामहे, अभिजानासि यत् कलिङ्गेष्ववसाम यत् तत्रौदनमभुञ्ज्महि; एहि मन्ये रथेन यास्यसि, जाने सुप्तो विहायसा गच्छामि, पश्य मृगो धावति, इह पश्यामः कर्मणि द्विवचन— बहुवचनान्युदाह्नियन्ते इति।
चोरस्य रुजति, चोरस्यामयति, चोरस्य बाधते, चोरस्य पीडयति, चोरस्य दहति, चोरस्यातङ्कयति, चोरस्य स्पृशति, चोरस्य शोषयति, चोरस्य मर्दयति, चोरस्य मोटयति, चोरं ज्वरयति, चोरं संतापयति। तथा— भवति पचति, भवति पक्ष्यति, भवत्यपाक्षीत्, भवेदपि भवेत्, स्यादपि स्यात्, नास्ति रमे, अयूयुजस्त्वमसि, असि त्वमीशिषे, अस्ति गच्छामो वयम्, अस्त्यत्र काञ्चिद् गां पश्यति, असि भवतु गम्यते, भवतु साधयाम इति।
रज्यति वस्त्रं स्वयमेव, कुष्यति पादस्स्वयमेव, अवकिरते हस्ती, अवाकीर्ष्ट वा स्वयमेव, ग्रथ्नीते माला, अग्रथिष्ट वा स्वयमेव, चीकीर्षते कटः, अचिकीर्षत वा स्वयमेव, नमते दण्डः अनंस्त वा स्वयमेव, उच्छ्रयते दण्डः, उदशिश्रियत वा स्वयमेव, ब्रूते कथा, अवोचत वा स्वयमेव; प्रस्नुते गौः प्रास्नोष्ट वा स्वयमेव; आहते गौः (३.१. ८९ काशिका), आवधिष्ट वा स्वयमेव। अनुरुन्धे गौः अन्वरुद्ध वा स्वयमेव, अकृत कटः स्वयमेव (३.१. ६२ काशिका) इति।
अन्ये पुनरमीषामपि कर्मकर्त्तृत्वं मन्यन्ते—
भिद्यते कुसूलः, स्वयमेव, भिद्यते रज्जुः स्वयमेव, लूयते केदारः स्वयमेव, पच्यते फलं स्वयमेव, भज्यते काष्ठं स्वयमेव, कुष्यते पादः स्वयमेव, अदोहि गौः स्वयमेव, अरोधि गौः स्वयमेव, अहावि हविः स्वयमेव, अकारि कटः स्वयमेव, तथा भूषयते कन्या स्वयमेव, मण्डयते कन्या स्वयमेव, दोहयते गौः स्वयमेव, आरोहयते हस्ती स्वयमेव, दर्शयते राजा स्वयमेव, अभिवादयते गुरुः स्वयमेव, लावयते केदारः स्वयमेव, पाचयते ओदनः स्वयमेव, भेदयते कुसूलः स्वयमेव, कारयते कटः स्वयमेव, गणयति गणः स्वयमेव, स्मरयति वनगुल्मः स्वयमेव'इति। आहुश्च—
कर्मवत् कर्म्मणा तुल्यक्रियः (३.१. ८७), कर्मवदभावे यगात्मनेपदचिण् (वद्)भावाः प्रयोजनम् (३.१. ८७ काशिका) अचः कर्मकर्त्तरि (३.१. ६२), दुहशच (३.१. ६३), न रुधः (३.१. ६४), न दुह्स्नुनमां यक्चिणौ (३.१. ८९), यक्चिणोः प्रतिषेधो हेतुमण्णिश्रिब्रुञामुपसंख्यानम् (३.१. ८९ वा. १), भूषाकर्मकिरादि (३. १. ८७), णि—श्रन्थ—ग्रन्थ—ब्रुञात्मनेपदा—कर्मकाणामुपसंख्यानम् (३.१. ८९ वा)।
तत् तु सम्यक्। तथाहि 'भिद्यते कुसूलस्स्वयमेव, अकारि कटः स्वयमेवेत्यादिषु कर्मण्येव यक्चिणौ, स्वयंशब्दात्तु कर्मकर्त्तुकत्वप्रतीतिः। अरोधि गौस्स्वयमेवेति रुधेरपि कर्मविवक्षायां चिण् भवत्येव अरोधि गौर्गोपालेनेति। यदा तु गोरात्मनेपद एव कर्मकर्त्तुत्वं तदा अरोधि गौर्गोपालेनेति। यदा तु गोरात्मनेपद एव कर्मकर्त्तृत्वं तदाऽरोधि गौरात्मनैवेति भवति। य एवार्थ आत्मनैवेति स स्वयमेवेति। अरोधीति चोक्ते नाश्रुते कर्त्तृवाचिनि पदान्तरे कर्मकर्त्तुत्वं गम्यते। तस्मादिहापि कर्मण्येव णिच्। भूषयते कन्या स्वयमेवेत्यादिषु तु 'णोरणौ यत् कर्म णौ चेत् स कर्त्ताऽनाध्याये' (१.३. ६७) इति फलवति कर्त्तर्येवात्मनेपदम्। कुतस्त्या तर्ह्येतेषु कर्मकर्त्तृताप्रसिद्धिः ?