न च भवन्तोऽपि क्रियाकारकोयोर्व्यतिरेकं न मन्यन्ते, तद्यथा चोरस्य रुजति, चोरस्यामयति इति।
उच्यते व्यतिरिक्तैव कारकेभ्यः क्रिया,
१. अनेकस्यैकव्यपदेशनिमित्तत्वात्। इह यद् यस्यानेकव्यपदेशनिमित्तं तत्ततोऽन्येति, अनुगम्यत्वात; इह यैर्यदनुगम्यते तत्तेभ्योऽन्यत्, यथा नरेभ्यो राजा। अभिगम्यतेऽनुगम्यते च क्रिया कारकैः, अतस्ततोऽन्येयम्।
२. जन्यत्वेनोपलम्भात्; यज्जन्यतया यदुपलभ्यते तत्ततोऽन्यत्, यथा पितुः पुत्रः। उपलभ्यते क्रिया कारकजन्यत्वेन, तस्मात् ततोऽन्या।
३. उपलब्धावनुपलब्धेः; इह यस्योपलब्धौ यस्यानुपलब्धिः तत्ततोऽन्यथा, (यथा) रूपाद्रसः। सूर्यस्य चोपलब्धौ न गतेरुपलब्धिः, तस्यास्ततोऽन्यथा; अस्ति चास्यासौ, देशान्तरप्राप्तेः; सापि दृष्टा; तथैवापश्यतः परावृत्य दर्शनात्।
४. प्रमाणान्तरग्राह्यत्वात्; इह यद्यस्मात् प्रमाणान्तरेण गृह्यते तत्ततोऽन्यत्; यथा शरीरादात्मा। प्रमाणान्तरग्राह्या च सदागतौ गतिः; तस्मात्ततोऽन्या।
५. बहुप्रविविक्तत्वेनाभिधानात्; इह यद् बहुभ्यः प्रविविक्तमेकत्वेनाभिधीयते, तत् ततोऽन्यत्; यथा तन्तुभ्यः पटः। अभिधीयते बह्वाश्रितापि प्रविवेकैकत्वेन क्रिया; यथा ब्राह्मणैरास्यत इति तस्मात् ततोऽन्या।
६. अनावृत्तावावृत्तेः; इह यस्मिन्ननावर्तमाने यदावर्तते, तत् ततोऽन्यत्, यथा हस्तिनो मशकः। आवर्तते चानावर्तमाने कर्तरि क्रिया, पञ्चकृत्वः पचतीति; तस्मात् ततोऽन्या।
७. इहोभयोरपि संशयनिर्णयनिमित्तत्वात्; इहोभयोस्संशये यस्य यो निर्णयहेतुर्भवति, तत् ततोऽन्यत्, यथा स्थाणौ श्र्येनः, निर्णयहेतुश्च, पुरुषस्य चलनादिक्रिया, तस्मात् ततोऽन्या।
८. अभिधायाभिधानात्; इह यदभिधायार्थान्तराविवक्षामन्तरेण यदभिधीयते तत् ततोऽन्यत्, यथा गौरश्वः। अभिधीयते च अध्येता अधीते गन्ता गच्छतीति कारकमभिधाय क्रिया, तस्मात् ततोऽन्या।