भोजशृङ्गारप्रकाशः - Sahitya | Sahitya | Rikamrit
Home All Resources
Vidyakendra
Vidyakendra Home
Back to Sahitya

Texts

raghuvamsa kumarasambhava kiratarjuniya shishupalavadha amarushataka shatakatrayam shakuntalam pancatantra kadambari shringaraprakasha meghaduta rtusamhara naishadhiya bhattikavya

Settings

16

Bookmarks

No bookmarks yet

भोजशृङ्गारप्रकाशः

Enable Parallel


Showing 31 to 40 of 756 verses
९. पर्यायाप्रसिद्धेः; इह येषामेव पर्यायप्रसिद्धिः, तेषामेव च तेभ्यो न भेदः, यथा निर्वर्तिरिति; न च पचन्नधीते पचत्यधीत इति पचन्पचत्योः पर्यायत्वम्, (न च) अपि पचन्नधीत इति कर्तुः पचतीति क्रियायाः पर्याययोग्यत्वम्; अतोऽसौ ततोऽन्यः।

१०. अभिन्नशब्दाभिधानेऽपि विशेषणानां लिङ्गवचनभेदात्। इह खलु क्रियाकर्त्रोरभिन्न— शब्दाभिधेयत्वेऽपि तद्विशेषणानां लिङ्गवचनभेदो दृश्‍यते, यथा शोभनं पचति शोभनं पचतः शोभनं पचन्तीति। स चार्थाभेदेऽभिन्नशब्दोपादान एव दृश्‍यते। तटः तटी तटं, पुष्यः तारका नक्षत्रं, रसः आपः जलम्, दाराः कलत्रं भार्या इत्यादिविशेषणानाम्। न तूदाहृतसदृशेष्विति क्रिया कर्तुरन्या।

११. शब्दावृत्तिभेदेषु तद्‌धी भेदात्। इह खलु क्रियाकारकयोश्शब्दावृत्तिभेदे बुद्धिभेदो दृश्‍यते; अध्येता पठति पठति, गन्ता गन्ता गच्छतीति पूर्वयोर्वीप्सा, उत्तरयोराभीक्ष्ण्यम्। यस्य च यतो बुद्धिभेदस्तत् ततो व्यतिरिक्तं, यथा मृदङ्गध्वनेर्मेघध्वनिः घटादिभ्यः पटादय इति क्रियायाः कारकेभ्यो व्यतिरेकः।

१२. सिद्धे चास्मिन्नभेददर्शनं भेदव्यतिरेकश्‍च विवेकत एवेति द्रष्टव्यम्।

(क्रियाया अनेकत्वम्)

१. दृश्‍यते च प्रदीपप्रवाहशब्दशरीरसंस्कारज्ञानसुखदुःखेच्छाद्वेषप्रयत्‍नरूपादिषु भिन्नेषु अभिन्नप्रत्ययः प्रवर्तते, तेष्वभेदेनैव तदनुकूलो व्यपदेशः। चोरस्य रुजतीत्यत्र तु रुक्‍साधकस्य कर्तुरभावाल्लकारः कर्तरि वर्तमानां तामेव रुजधात्वभिहितामभिधेयीकरोति। अस्ति च साध्यस्यापि वस्तुनो भवतः कर्तृत्वम्, अतस्तदेव कर्तृप्रत्ययेनाभिधीयते। न चोरस्य रुजतीत्यस्यायमर्थः चोरस्य रुगुत्पद्यत इति।

कुतः पुनरयं कारकक्रिययोर्विशेषः यदेकत्र वीप्सा अन्यत्राभीक्ष्ण्यमिति ?

क्रियाया एकत्वेन वीप्सानधिगमात्। बहूनां हि क्रियागुणद्रव्यैः प्रयोक्तुर्युग— पद्‌व्याप्‍तुमिच्छा वीप्सा; सा त्वेकत्वे क्रियाया नोपपद्यते इति।

२. ननु च क्रियाया एकत्वं नोपपद्यते, कालत्रयेणात्यन्तविरोधिना युगपदभिसंबन्धव्यपदेशात्; इह खलु क्रियाया एकैकस्मिन्नपि काले कालत्रयाभिसंबन्धहेतुर्व्यपदेशो दृश्‍यते, पचति देवदत्तः अपाक्षीद् यज्ञदत्तः, पक्ष्यति विष्णुमित्र इति। तच्‍चैकत्वे न घटते इत्यनेका क्रिया।

३. भेदनिबन्धना आतिशयिकतरबादिप्रत्यययोगात्; इह खलु क्रियायाः पचतितरां पचति— तमामित्यातिशायनिकप्रत्ययो दृष्टः; स च द्वयोर्बहूनां च प्रकर्षे सिद्ध इत्यनेका क्रिया।