९. पर्यायाप्रसिद्धेः; इह येषामेव पर्यायप्रसिद्धिः, तेषामेव च तेभ्यो न भेदः, यथा निर्वर्तिरिति; न च पचन्नधीते पचत्यधीत इति पचन्पचत्योः पर्यायत्वम्, (न च) अपि पचन्नधीत इति कर्तुः पचतीति क्रियायाः पर्याययोग्यत्वम्; अतोऽसौ ततोऽन्यः।
१०. अभिन्नशब्दाभिधानेऽपि विशेषणानां लिङ्गवचनभेदात्। इह खलु क्रियाकर्त्रोरभिन्न— शब्दाभिधेयत्वेऽपि तद्विशेषणानां लिङ्गवचनभेदो दृश्यते, यथा शोभनं पचति शोभनं पचतः शोभनं पचन्तीति। स चार्थाभेदेऽभिन्नशब्दोपादान एव दृश्यते। तटः तटी तटं, पुष्यः तारका नक्षत्रं, रसः आपः जलम्, दाराः कलत्रं भार्या इत्यादिविशेषणानाम्। न तूदाहृतसदृशेष्विति क्रिया कर्तुरन्या।
११. शब्दावृत्तिभेदेषु तद्धी भेदात्। इह खलु क्रियाकारकयोश्शब्दावृत्तिभेदे बुद्धिभेदो दृश्यते; अध्येता पठति पठति, गन्ता गन्ता गच्छतीति पूर्वयोर्वीप्सा, उत्तरयोराभीक्ष्ण्यम्। यस्य च यतो बुद्धिभेदस्तत् ततो व्यतिरिक्तं, यथा मृदङ्गध्वनेर्मेघध्वनिः घटादिभ्यः पटादय इति क्रियायाः कारकेभ्यो व्यतिरेकः।
१२. सिद्धे चास्मिन्नभेददर्शनं भेदव्यतिरेकश्च विवेकत एवेति द्रष्टव्यम्।
१. दृश्यते च प्रदीपप्रवाहशब्दशरीरसंस्कारज्ञानसुखदुःखेच्छाद्वेषप्रयत्नरूपादिषु भिन्नेषु अभिन्नप्रत्ययः प्रवर्तते, तेष्वभेदेनैव तदनुकूलो व्यपदेशः। चोरस्य रुजतीत्यत्र तु रुक्साधकस्य कर्तुरभावाल्लकारः कर्तरि वर्तमानां तामेव रुजधात्वभिहितामभिधेयीकरोति। अस्ति च साध्यस्यापि वस्तुनो भवतः कर्तृत्वम्, अतस्तदेव कर्तृप्रत्ययेनाभिधीयते। न चोरस्य रुजतीत्यस्यायमर्थः चोरस्य रुगुत्पद्यत इति।
कुतः पुनरयं कारकक्रिययोर्विशेषः यदेकत्र वीप्सा अन्यत्राभीक्ष्ण्यमिति ?
क्रियाया एकत्वेन वीप्सानधिगमात्। बहूनां हि क्रियागुणद्रव्यैः प्रयोक्तुर्युग— पद्व्याप्तुमिच्छा वीप्सा; सा त्वेकत्वे क्रियाया नोपपद्यते इति।
२. ननु च क्रियाया एकत्वं नोपपद्यते, कालत्रयेणात्यन्तविरोधिना युगपदभिसंबन्धव्यपदेशात्; इह खलु क्रियाया एकैकस्मिन्नपि काले कालत्रयाभिसंबन्धहेतुर्व्यपदेशो दृश्यते, पचति देवदत्तः अपाक्षीद् यज्ञदत्तः, पक्ष्यति विष्णुमित्र इति। तच्चैकत्वे न घटते इत्यनेका क्रिया।
३. भेदनिबन्धना आतिशयिकतरबादिप्रत्यययोगात्; इह खलु क्रियायाः पचतितरां पचति— तमामित्यातिशायनिकप्रत्ययो दृष्टः; स च द्वयोर्बहूनां च प्रकर्षे सिद्ध इत्यनेका क्रिया।