४. एकेन युगपदनेकाधिकरणस्य निर्धारणात्; इह यदेकैकस्मिन् काले अनेकाधारस्थं पृथक्त्वेनावधार्यते तदनेकम्, यथा अङ्गुलीषु नखानि निर्धार्यन्ते; निर्धार्यते चानेकाधिकेन युगपद् गोषु गतिरित्यनेका क्रिया।
५. पूर्वकालेऽपि प्रत्ययदर्शनात्; इह द्वयोरेककर्तृकयोः क्रिययोः पूर्वकाले क्त्वाप्रत्ययो दृश्यते। यथा भुक्त्वा भुङ्क्ते, पक्त्वा पचतीति; द्वित्वं चैकत्वप्रत्यनीकमित्यनेका क्रिया।
६. युगपल्लक्ष्यलक्षणयोगात्; इह क्रियाणामभिन्नकालं लक्ष्यलक्षणयोगो दृश्यते; गवि दुह्यमानायामपि दोग्धि; तयैकत्वेऽनुपपन्नमित्यनेका क्रिया।
७. हेतुफलभावात्; इह खलु हेतुफलयोः प्रसिद्धो भेदः; स च क्रियासु दृश्यते 'ओदनं पचति, शाकं पचति, भुञ्जान ओदनं भुङ्क्त' इति, भेदश्चैकत्वविरोधीत्यनेका क्रिया।
८. क्रियार्थक्रियोपपदतुमुनादिप्रत्ययोत्पत्तेः; इह ये तु क्रियार्थायामुपपदे तुमुनादयस्स्मर्यन्ते, ते च भोक्तुं गच्छति, पाकाय व्रजति भोक्ष्यामीति। पचतिप्रभृतिषु यथाऽभिन्नधातु— वाच्यत्वेऽपि दृश्यन्ते, यथा गन्तुं गच्छति, भोजनाय भुङ्क्ते, पक्ष्यामीति पचतीति। स चायं तदर्थफलभावोऽनेकत्वं एवोपपद्यत इत्यनेका क्रिया।
९. अभिहितानभिहितशक्तिप्रादुर्भावनिमित्तत्वात्; इह धात्रीं धयति, दात्रेण दाति, दाशाय दाशते, भीमाद् बिभेति, आसने आस्ते, शयने शेते, स्थाने तिष्ठति, प्रासादे प्रसीदति (इति) प्रत्ययविभक्त्योर्दर्शनादभिहितानभिहितशक्तिप्रादुर्भाव उपलभ्यते; स चानैक्यनिमित्तं क्रियाभेदमन्तरेण न सङ्गच्छत इत्यनेका क्रिया।
१०. भावाभिधानेऽपि तन्त्रादिभ्यो द्विवचनबहुवचनोपलब्धिः; इह खलु शुद्धेऽपि भावे तन्त्रादिभ्यः पाकौ पाकाः, उष्ट्रासिका आस्यन्ते, हतशायिकाश्शय्यन्त इति द्विवचनबहुवचनोपलब्धिः; तच्च क्रियैकत्वे न युक्तमित्यनेका क्रिया।
११. कृदाख्याताभिहितायाः क्रियायाः सर्वसंख्यासामानाधिकरण्यात्। इह कृदभिहिताया आख्याताभिहितायाश्च क्रियाया भिन्नार्थाभिधायिभिस्संख्याशब्दैः सामानाधिकरण्यं दृश्यते; यथैकः पाकः, द्वौ पाकौ, बहवः पाकाः; एका उष्ट्रासिका आस्यते, द्वे आस्येते, बह्वय आस्यन्ते; तच्चैकत्वे क्रियाया न सांप्रतमित्यनेका क्रिया।
१२. इह भवतिनिमन्तृप्रभृतीनामवधृतभेदपरिस्पन्दाश्रयकार्याभिनिर्वृत्तेः; इह यासां क्रियाणामवच्छेदकधात्वर्थोपाधिभेदादनेकत्वं प्रत्यविवादः, तासु ये भेदाश्रया धर्माः प्रसिद्धाः, तद्यथा भोक्तुमिच्छति, भवति पचति, भवति पक्ष्यति, भवत्यपाक्षीत्, आमन्त्रयै समाजम्, उत्सवमामन्त्रयै इति—(ते) समानधातुवाच्यास्वपि दृश्यन्ते; एषितुमिच्छति, भवेदपि भवेत्, स्यादपि स्यात्, निमन्त्रये निमन्त्रणार्थम्, आमन्त्रये आमन्त्रणार्थमिति; तस्माद् भवेदाश्रयकार्यसंबन्धाद् भवितव्यमनेकत्वम्; एकेन धातुना सर्वत्र भेदेनेत्यनेका क्रिया।
१३. साध्यसाधनभावात्; इह साध्यसाधनयोः प्रसिद्धो भेदः; प्रदृश्यते च साध्यसाधनता क्रियाणाम्; यथा 'स इमान् पोषानपुषत्', तप्यते तपस्तापस इति। तच्चैकत्वे न घटते इत्यनेका क्रिया।