भोजशृङ्गारप्रकाशः - Sahitya | Sahitya | Rikamrit
Home All Resources
Vidyakendra
Vidyakendra Home
Back to Sahitya

Texts

raghuvamsa kumarasambhava kiratarjuniya shishupalavadha amarushataka shatakatrayam shakuntalam pancatantra kadambari shringaraprakasha meghaduta rtusamhara naishadhiya bhattikavya

Settings

16

Bookmarks

No bookmarks yet

भोजशृङ्गारप्रकाशः

Enable Parallel


Showing 11 to 20 of 756 verses
एवं चास्मितापेक्षाभिनिवेशैर्दूरविप्रसृतायामविद्यायां एषामपि विशेषाविशेषतो दूरीकृता विद्याः विद्यति—जनि—पचादयः प्रादुर्भवन्ति। तदाह— 'कृभ्वस्तयः क्रियासामान्य— वचनाः क्रियाविशेषवचनाः पचादय' (मभा. ३.३.९८) इति। तेऽमी सर्वेऽपि धात्वर्थभेदाः संभेदतो मिथस्सङ्ख्यानमतिवर्तन्ते, न तु कृभ्वस्तिरूपताम्।

ननु च धात्वर्थः क्रिया; स च कारकाणां प्रवृत्तिविशेषः। कारकेषु च स्वतन्त्रः कर्ता, कर्तुरीप्सिततमं कर्म, साधकतमं करणम्, आधारोऽधिकरणं, कर्मणा यमभिप्रैति स संप्रदानं, ध्रुवमपायेऽपादानं, तेभ्योऽन्यस्तदविवक्षा वा शेषः। कर्तुः प्रयोजको हेतुरिति कर्त्रादिभ्यो व्यतिरिक्तमर्थान्तरं नोपलभ्यते, यत् क्रियेति प्रतीयते।

(क्रियासिद्धिः)

उच्यते— अस्ति क्रिया। किन्तु कर्त्रादिभ्यः पृथगाख्यातुमशक्‍यम्, अनापन्नसत्त्व— भावात्, अनिर्लुठितगर्भवत् (मभा. १.३.१); यथा गर्भोऽनापन्नसत्त्वभावः कललावस्थाया— माशयतः पृथगाख्यातुं न शक्यते, तथा क्रियापि साधनेभ्यस्साध्यावस्थायाम्। तद्यथा— ज्योतिः प्रकाशते, शब्दो ध्वनति इति।

कथं तर्हि अस्ति ज्ञायते कारकसन्निधानेऽपि पचतीति?

प्रख्योपाख्ययोर्भावाभावाभ्याम्।

१. इह खलु यत्सन्निधाने यस्य भावाभावौ, तस्य ततोऽन्यनिमित्तापेक्षित्वं दृष्टम्। यथा अग्‍निघटयोस्सन्निधाने भवतामभवतां च तत्संयोगापेक्षित्वं पाकजानाम्। कर्त्रादिसन्नि— धाने च कदाचित् पचतीत्येतद्‌भवति, कदाचिन्न पचतीति दृश्‍यते। तेन मन्यामहे नूनमस्ति शक्तिशक्तिमद्भ‌योऽन्यश्शक्तिर्धर्मो यद्भावादिमे प्रख्योपाख्ये प्रवर्तेते, यदभावाच्च न प्रवर्तेते इति सिद्धमस्तित्वं क्रियायाः।

२. इथश्‍चास्ति क्रिया, साध्यमन्तरेण साधनानुपपत्तेः। इह खलु कर्त्रादीनां साधनव्युपदेशो दृश्यते, स च साध्यमन्तरेणानुपपन्नः; यच्‍च साध्यं सा क्रिया। तदाह— संहृत्य कारकैर्य एकोऽर्थोऽभिनिर्वर्त्यते सा क्रिया। क्रियानिमित्तं कारकमिति। तथा च क्रियासु स्वेच्छया कारकादीनि यः प्रयुङ्क्ते न तु तैः प्रयुज्यते, स कर्ता, कर्तुः क्रिययाऽनन्यया यदाप्यते तत्कर्म, क्रियासिद्धौ साधकतमत्वेन यदव्यवहितं व्याप्रियते तत् करणम्, कर्त्रा कर्मणा वा व्यवहितः क्रियाधारोऽधिकरणम्, क्रियाकार्यत्वेनावधारितं कर्मणा संयोगं यदनुभवति तत्संप्रदानम्, कर्त्रा कर्मणा वा क्रियाजन्यमेव ध्रौव्येण यद्‌विभागमवगाहते तदपादानम्, श्रूयमाणाश्रूयमाणक्रियापदः क्रियाकृतः कारकाणामकारकाणां च संबन्धविशेषः स शेषः (वाप. ३.७.१५६)। कुर्वन्तमेवाज्ञा— प्रदानादिना यः क्रियायां नियुङ्क्ते, सः तत्प्रयोजको हेतुः कर्ता च भवति। एवं च यथा काष्ठादयो लाक्षादिकमपेक्षमाणा एवं मिथस्संबन्धयोग्यतामनुभवन्ति तथा द्रव्याण्यपि क्रियापेक्षीण्येव परस्परसंबन्धाय प्रभवन्तीति क्रियामन्तरेण जगतश्‍चित्रकर्मण इव मिथस्संयोगो वियोगश्‍च न स्यात्। तदुक्तं — यया देवदत्त इह भूत्वा पाटलिपुत्रे भवति सा ननं क्रियेति (मभा. १.३.१)।

(क्रिया न कारकम्)

अस्तु नाम क्रिया, कारकेभ्यस्तु तस्याः कथं व्यतिरेकः ?

Showing 11 to 20 of 756 verses