श्रूयताम्— कर्मपदेषु तावत्—
क्रियमाणं तु यत् कर्म स्वयमेव प्रसिद्ध्यति। सुकरं स्वैर्गुणैः कर्त्तुः कर्मकर्त्तेति तं विदुः॥१॥
कर्त्तुपदेषु भूतपूर्वकत्वात् तदवदुपचार इति। तथाहि कन्यादयो लावण्यातिशयादिभि— रात्मभूषायै प्रसाधनादीन् प्रयुञ्जते। प्रयुञ्जते च माघादयो महाकवयः—
आकुञ्चितप्रोहनिरूपितक्रमं करेणुरारोहयते निषादिनम्॥२॥ (माघ. १२.५)
स सन्ततं दर्शयते गतस्मयः कृताधिपत्यामिव साधु बन्धुताम्॥ ३॥ (किराता. १. १०) इति
फलमनयोः सुखासिका लोकरञ्जनं च। अन्यथैको हस्तिपकैः पीड्येत, द्वितीयो दुदर्शे इति नाभिगम्यते।
अचेतनेष्वपि क्रियाफलविवक्षायां तु दृश्यते 'परिवारयन्ते वृक्षं कण्टकाः, शोषयते व्रीहिनातप' इति। एतेन करणेन तुल्यक्रियः कर्त्ता कर्मवद् भवतीत्यपि व वक्तव्यं भवति। परिवारयन्ति कण्टकैर्वृक्षं मनुष्याः, परिवारयन्ते कण्टकाः स्वयमेवेति। तथा 'दुहिपच्योः सकर्मकयोः कर्त्ता बहुलं कर्मवद् भवतीति न वक्तव्यम्। दुग्धे गौः पयः स्वयमेव, पयो मुञ्चतीति गम्यते। तस्मादुदुम्बरस्सलोहितं फलं पच्यत इति कर्मतैव क्रियाविशेषणविवक्षिता। उदुम्बरशब्दोऽत्र फलवृत्तिः, उदुम्बरं तत् कालेन पच्यते सलोहितगुणं यथा भवति लोहितेन पाकेन सम्बध्यत इति यावत् कर्त्तृत्वविवक्षायां च पचत्यात्मानामिति। तथा युजेः श्यन् कर्त्तरि वक्तव्यम्, मासं युज्यते ब्रह्मचारीति। कर्त्तृत्वविवक्षायां तु दैवादिकत्वं न सेत्स्यति, कर्मत्वविवक्षायां तु कर्मत्वं यथा; कर्त्तृत्वं तु स्वयं शब्देन गम्यत इत्यलमतिप्रसङ्गेन॥
कृदन्तमपि खलु क्रियारूपं विद्यते। तत्र—
भावो यथा— इह तैर्यातम्, इह तैरासितम्, इह तैर्भुक्तम्, इह तैः पीतम्; कृतं भवता, प्रसुप्तं भवता, सुकृतं भवता, सुसिक्तं भवता, भूतं भवता, प्रभूतं भवता, भविष्यमाणं भवता, भूयमानं भवता, भवितव्यं भवता, भवनीयं भवता, भव्य़ं भवता, अवश्यं भाव्यं भवता, आशितभवं भवता, ईषदाढ्यम्भवं भवता, दुराढ्यंभवं भवता, स्वाढयंभवं भवता, ईषदुत्थानं भवता, सूत्थानं भवता इति।
कर्म यथा— प्रकृतः कटो भवता, कृतः क्रियमाणः करिष्यमाणो भवता, खलु कटः कर्त्तव्यः, कृत्यः, करणीयः, कार्यः; ईषत्कार्यः, ईषत्करः क्रियार्थो भवता, ईषदाढ्यंकरः स्वाढ्यंकरः, ईषत्पानः सोमो भवता, सुपानः, दुष्पानः; दुश्शासनोऽरिभिर्भवान् सुयोधनः, दुर्योधनः, दुर्दर्शनः, दुर्धर्षणः, दुर्मर्षणः, ईषल्लभ्यो जनैर्भवान्, सुलभः, दुर्दर्शः इति।