जात्यभिधानपक्षे जातेरलिङ्गसंख्याया अपि तदाधारव्यक्त्याश्रयाणि लिङ्गवचनानि प्रवर्त्तन्ते, तथैव भावनाया अभेदेऽपि। तथा कर्त्राश्रयो वचनपुरुषभेदः प्रपत्स्यतीति।
न च कर्त्तरि लकारः स्मर्यत इति वाच्यम्, यतः 'कर्त्तरि कृत् (३.४. ६७), 'लः कर्मणि च भावे चाकर्मकेभ्यः' (३.४. ६९), 'वर्त्तमाने लट्' (३.२. १२३), 'लस्य (३.४. ७७, ७८) 'तिबादयः (१.४. १०१), तिङ्स्त्रीणि त्रीणि प्रथममध्यमोत्तमाः तान्येकवचनद्विवचनबहुचान्येकशः युष्मदि XXX मध्यमः, अस्मधुत्तमः, शेषे प्रथमः (१.४. १०२—१०८), भावकर्मणोरात्मनेपदम् (१.३. १३), शेषात् कर्त्तरि परस्मैपदम् (१.३. ७८) इत्यादिवाक्यानां ' द्व्येकयोर्द्विवचनैकवचने (१.४. २२), 'बहुषु बहुवचनम्' (१.४. २१) इति संख्याविधानेन सहैकार्थविषयत्वादेकवाक्यता व्याख्याता। एको हि पचतीत्यादिशब्दस्तैर्व्याक्रियते। तत्रैष वाक्यार्थो भवति— कर्त्तुरेकत्वे एकवचनं तिबित्यादि, कर्त्तुर्द्वित्वे द्विवचनं तसित्यादि, कर्त्तुर्बहुत्वे बहुवचनं झीत्यादि। एवं च भावनाक्षिप्त— कर्त्तृसंख्यायामेव लकारः स्मर्यते न कर्त्तरि।
उच्यते, यदि भावनाक्षिप्तकर्त्तृसंख्या लकारेणोच्यते, देवदत्तेनास्यत इति भावाभिधायिनोऽपि कर्त्तृसंख्यायामेवाभिधानं प्राप्नोति, उभयत्रापि कर्त्तृसद्भावात्। येनैव हि निमित्तेन पचतीत्यादौ कर्म संख्याभिधानमासादयति तेनैव प्रयोगान्तरेऽप्यासादयेत्। कतं च कर्त्तर्यभिधीयमाने तद्विशिष्टसंख्याभिधानं युक्तम् ?
अथ संख्यामात्रमभिधीयते न विशेषः; तर्हि पुरुषादिभेदप्रतीतेरनुपपत्तिः। तद्विशिष्टा— भिधानं च तदभिधानपुरस्सरेण न्याय्यम्, नाऽगृहीतविशेषणा विशेष्यबुद्धिर्वर्त्तत इति न्यायात् न च शब्देनासंस्पृश्यमानोऽपि कर्त्ता सन्निधिमात्रेण संख्यां विसेषायितुमुत्सहते, संख्याया धर्मरूपत्वाद् धर्मिणा कर्त्तुरवच्छेदकत्वेन संस्पर्शो युज्यते। करणादीनामपि सान्निध्य— धर्मित्वात् तथात्वोपपत्तेः। किञ्च लकारेणाभिहितयोर्भावनासंख्ययोरुत्तरकालो भावनाक्षिप्तः कर्त्ता लभ्यते। ततोऽस्य पूर्वभावाद् भावनासमकालमभिहितया संख्यया अविशेषात् सर्वकारकाणामवच्छेदः प्राप्नोति। पश्चाच्च कर्त्ताक्षिप्तः कथं भावनासमकालमभिहितां संख्यामात्मनि निरुन्ध्यात् ?
अथ संख्यावदभावनाप्रतीतिसमकालमेव कर्त्ता प्रतीयते; न तर्ह्याक्षेपलभ्यः, अपितु संख्यावल्लकारेणाभिधीयत एवेति।
किञ्च देवदत्तादिपदेन पचतीत्यादेस्सामानाधिकरण्यदर्शनात् संख्यावान् कर्त्तैव लकारेणाभिधीयते। यदि पुनः कर्त्तृस्संख्यानमेकत्वादिकं लकारो ब्रूयात् तदा देवदत्तस्य पचतीत्येवं प्रयोगः स्यात् यथा देवदत्तस्यैकत्वमिति। अथ न संख्यानमुच्यते लकारेण, किन्तु संख्येय एव देवदत्तादिरभिधीयते। देवदत्तः पचतीत्येकत्वसंख्यावच्छिन्नः पाकं करोतित्यर्थः। एवं चं संख्येयेऽभिधीयमाने कर्त्तैवाभिहितो भवति।
न च कर्त्रभिधानेऽपि शक्तेः कारकत्वात् समानाधिकरणाऽनुपपत्तिरिति वाच्यम्, शक्तिर्हि लकारेणाप्यभिधीयमाना गुणद्रव्यपरतन्त्रैवाभिधीयते। यथा—'शुक्लः पटः, शुक्ला शाटी'—ति।
अपि च भवन्तोऽपि कर्म लकारवाच्यं मन्यन्ते, तदनुपपन्नम्। यथैव हि भावनाक्षेपलभ्यत्वात् कर्त्तुरवाच्यत्वं तथा कर्मणोऽपि भवितुमर्हति।
अथानाक्षेपात् कर्मणो वाच्यत्वम्। एवं च सति कर्त्तुरपि तथात्वोपपत्तिः। न हि क्रियाक्षेपे कर्तृकर्मणोर्विशेषमुपलभामहे। यथैव हि कर्त्रा विना क्रिया न प्रतीयते एवं कर्मणापि। न सर्वत्र कर्मसम्बन्ध इति चेत्, यत्राऽस्ति तत्र कथम् ? अथ कर्मणोऽपि क्रियाक्षेपलभ्यत्वात् तद्गताऽपि संख्यैवोच्यते लकारेण। कथमिदानीं कर्त्तृकर्माऽनभिधायको लकारः क्वचित् कर्त्तृगतां संख्यामभिधत्ते; क्वचित् कर्मगतामिति विशेषो भवति? न च विशेषणं नास्तीति वाच्यम्, यतः पचतीत्यत्र उल्लसितेन कर्त्तृरूपत्वेन पच्यत इत्यत्र रूपगृहीतकर्मनिष्ठत्वेन प्रतीतिरूत्पद्यते। किं च लकारणे कर्त्तृकर्मणोरनभिधाने देवदत्तः पचतीत्यनभिहिते कर्त्तरि तृतीया, ओदनः पच्यत इति कर्मणि द्वितीया प्राप्नोति।
अथैवमुच्यते कर्त्तृकर्म्मसंख्ययोरभिहितत्वान्न भविष्यतो विभक्ती। कृदन्तेषु तर्ह्यनिष्टप्राप्तिः संख्यायाः कृत्यभिधानात्। तत्र पक्व ओदन इति द्वितीया, पक्ता देवदत्त इति तृतीया प्राप्नोति।