७. समागमचिन्ता यथा—(गास. ९१८ वे
वच्चिहिइ सो घरं से लहिहिइ ओआसमेहिइ सआसं।
भणिहिइ जं भणिअव्वं, पच्चुत्तं किं णु पाविहिइ॥ १४॥
{व्रजिष्यति स गृहं तस्या:, लप्स्यतेऽवकाशमेष्यति सकाशम्।
भणिष्यति यद् भणितव्यं युक्तमुत्तरं किं नु प्राप्स्यति॥}
आअअस्स किं णु, काहं/किं वोच्छं कह णु होहिइ इमंति।
पढमुग्गअसाहस—आरिआएॅ हिअअं थरहरेइ॥ १५॥
{आगतस्य किं नु करिष्यामि किं प्रवक्ष्यामि कथं नु भविष्यति इदमिति।
प्रथमोद्गतसाहसकारिकाया हृदयं थरथरायते॥}