१.१ धीरोदात्त-धीरोद्धत-धीरललित-उत्तम-मध्यम-कनिष्ठ-सात्त्विक-राजस-तामस- दक्षिण-शठ-धृष्टनामानो मानोपयोगिनो द्वादशविषयभेदाः;
१.२ गुणवयोधैर्यप्रकृतिनिमित्ताः उत्तमा, मध्यमा, कनिष्ठा, मुग्धा, मध्या, प्रगल्भा, धीरा, अधीरा, उदात्ता, उद्धता, ललिता, शान्ताभिनयना(मानः?) मानसंबन्धिनो द्वादश आश्रयभेदाः।
१.३ प्रत्यक्षादिप्रमाणजन्मानो मानोत्पत्तिहेतवो दृष्टादृष्टार्थापन्न—श्रुताश्रुतार्थापन्न—शङ्कित— संभावितानुमितोपमितविपरीतोत्प्रेक्षितस्मृतस्वप्नोपलब्धाह्वया द्वादशैवालम्बनभेदाः।
सैषा विषयाश्रयालम्बनविशेषभेदोपाधिनिबन्धनाः षट्त्रिंशत्तदुपाधिसंज्ञयो— दाह्रियते।
तत्र विषयविशेषोपाधिनिबन्धनेषु —
१. धीरादात्तविषयो यथा—(माघ. ११.३३)
तदवितथमवादीर्यन्मम त्वं प्रियेति प्रियजनपरिभुक्तं यद्दुकूलं वसानः। मदधिवसतिमागाः कामिनां मण्डनश्रीः व्रजति हि सफलत्वं वल्लभालोकनेन॥ ८॥
२. धीरोद्धतविषयो यथा—(रत्ना. ३.१४)
आताम्रतामपनयामि विलक्ष एष लाक्षाकृतां चरणयोस्तव देवि मूर्घ्ना।