९. दूतागमनं यथा—(सेब. १०.७४)
सहिअण—हत्थाहिमुखं दरइअविसेसअं वि अक्खिविऊणं।
जुअईहि पडिणिउत्तो अवलोहिज्जइ ससंभम दूइजणो॥ १८॥
{सखीजनहस्ताभिमुखं धरति च धृतं विशेषकं व्याक्षिप्य।
युवतिभिः प्रतिनिवृत्तोऽवलोक्यते ससंभ्रमं दूतीजनः॥}
अहिसारणं ण गेण्हइ ण संठवेइ अलअं ण पुच्छइ दूइं।
चंदालोअपडिहदो वेवइ मूढहिअओ विलासिणि—सत्थो॥ १९॥
(अभिसारणं न गृहणाति न संस्थापयति अलकं न पृच्छति दूतीम्।
चन्द्रलोकप्रतिहतः स्थपितः मूढहृदयः विलासिनीसार्थः॥)