८. चिरयद्विमर्शो यथा—(गास. ८५५वे)
दूई गआ चिराअह किं सो मह वासमेहिइ ण व त्ति।
जीवितमरणंतरसंठिआए अंदोलए हिअअं॥ १६॥
(दूती गता चिरायते किं स मम वासमेष्यति न वेति।
जीवितमरणान्तरसंस्थिताया आन्दोलायते हृदयम्॥)
दूइ ण एइ चंदो पि उग्गओ जामिणी वि वोलेइ।
सव्वं सव्वओ च्चिअ विसंठुलं कस्स किं भणिमो॥ १७॥
(दूती न एति चन्द्रोऽपि उद्गतः यामिन्यति अतिक्रामति।
सर्वं सर्वत एव विसंष्ठुलं कस्य किं भणामः॥)