२५. मालाकारः मयूरकः, कुसुमगेहस्य कुन्दमालायाम्।
२६. ताम्बूलिकः, ताडजवः देवसेनस्य शाखिनीसंवादे।
२७. गान्धिकः, गौधेरेकः स्वयंप्रभाया ईर्ष्यालुविप्रलम्भे।
२८. सौरिकः, शाकुनिकः शकुन्तिकायां सातकर्णिहरणे।
२९. पीठमर्दः, दन्तकः शूद्रवत्सस्य कामसेनाविप्रलम्भे।
३०. विटः, मूलदेवः चारुलोचनस्य शाखाविशाखोपाख्याने।
३१. विदूषकः वसन्तकः उदयनस्य सागरिकाविप्रलम्भव्यतिकरे।
३२. पाषण्डी भैरवानन्दः चण्डपालस्य कर्पूरमञ्जरीसङ्गमन इति।
उक्तं च—"मालाकार—ताम्बूलिक—गान्धिक—पीठमर्द—विट—विदूषक— पाषण्डिनो मित्राणि, तद्योषिन्मित्राश्च नागरिकाः स्युः" इति (कासू. १.५)१।
तेषु— मालाकारादयस्सुप्रसिद्धाः। अविभवस्तु मालिकाफेनकषायमात्रपरिच्छदः, पूज्यदेशादागतः, कलासु विचक्षणः; तदुपदेशेन गोष्ठ्यां वेशे च वासयेदात्मानमिति पीठमर्दः२, (कामसू. १.४) भुक्तविभवस्तु तत्रत्य एव गुणवान् सकलत्रः गोष्ठ्यां वेशे च बहुमतः, तदुपजीवनः विटः३ (कामसू. १.४) एकादशविद्यस्तु क्रीडनकः विश्वास्यश्च विदूषकः, वैहासिको वा४। मुण्डजटिलव्यञ्जनः कुहक ऐन्द्रजालिको वा पाषण्डी५। ते हि प्रायेण नागरकाणां मित्राणि, मन्त्रिणः, दूताश्च भवन्ति।