४०. कनीयान्, गोपालकः पालकस्य कथामुखलम्भे।
अथातोऽर्थ—प्रयोजन—प्रयोग—योग्यता—वतामुदाहरणानि। तत्र असिद्धाय यस्मै पुमान् प्रवर्तते सः अर्थ्यमानत्वादर्थः।
पूर्वसिद्धं सत् यद्येनमस्मै कर्मणे प्रवर्तयति तत्प्रवृत्तिनिमित्तत्वात् प्रयोजनम्।
प्रयोजनापेक्षया रूपस्वरूपवेषभाषादिव्यत्ययः प्रयोगः।
सम्भावनादिभिर्यथास्थानमुपयोगो योग्यता। तत्र
४१. अर्थेषु यतः स्वकार्यसिद्धिः सोऽर्थः, यथा—(कुसं. ६.२७)
सोऽहं तृष्णातुरैर्वृष्टिं विद्युत्वानिव चातकैः।
अरिविप्रकृतैर्देवैः प्रसूतिं प्रति याचितः॥ १०॥
४२. व्यसनप्रशसनम् अनर्थप्रतिघातः१, यथा—(रघु. १६.६९)