भोजशृङ्गारप्रकाशः - Sahitya | Sahitya | Rikamrit
Home All Resources
Vidyakendra
Vidyakendra Home
Back to Sahitya

Texts

raghuvamsa kumarasambhava kiratarjuniya shishupalavadha amarushataka shatakatrayam shakuntalam pancatantra kadambari shringaraprakasha meghaduta rtusamhara naishadhiya bhattikavya

Settings

16

Bookmarks

No bookmarks yet

भोजशृङ्गारप्रकाशः

Enable Parallel


Showing 101 to 110 of 890 verses
तस्मात् समुद्रादिव मथ्यमानादुद्‍वृत्तनक्रात् सहसोन्ममज्ज।

लक्ष्म्येव सार्धं सुरराजवृक्षः कन्यां पुरस्कृत्य भुजङ्गराजाः॥ ११॥

४३. कार्यसिद्धौ साधारण्यमुभयोः सहार्थता, यथा—

तस्य द्रोणो धनुषि न गुरुस्स्वस्ति देवव्रताय च्छन्नाभ्यासं कुरुपतिरयं श्रीसमूढैर्विलासैः।

भोः कर्णाद्याश्शृणुत तदिमां ब्राह्मणस्यास्य वाणीं राधायन्त्रं रचयत पुनर्विद्धमप्यस्त्वविद्धम्॥ १२॥

४४. देशकालात्मप्राप्‍तौचित्यज्ञानमाप्‍तिः यथा—(रघु. ६.२०)

ततो नृपाणां श्रुतवृत्तवंशा पुंवत् प्रगल्भा प्रतिहाररक्षी।

प्राक् सन्निकर्षं गमधेश्वरस्य नीत्वा कुमारीमवदत् सुनन्दा॥ १३॥

NOTES pg=1240! १. कथेयं भीष्मस्येति ज्ञायते इति राघवः। २. व्यसनप्रशसनमर्थप्रति॰ इति रा. HOS पृ. १३६२

४५. वञ्चनीयेषु कालहरणं प्रतारणम्, यथा—(मामा. ६.२)

Showing 101 to 110 of 890 verses